________________
[३२१
द्वादशः सर्गः]
निशान्ते प्रेक्षन्त स्वप्ने, सिंहा-ऽर्का-ऽग्नि-गज-ध्वजान् । विमान-पद्मसरसी, ऋतुस्नाताऽथ देवकी ॥५०॥ तस्याः कुक्षाववातार्षीद् , गङ्गदत्तश्च्युतो दिवः । नभ:सिताष्टमीरात्रिमध्येऽथ तमसूत सा ॥५१॥ सान्निध्यं तेनिरे तस्य, पुण्यपूर्णस्य देवताः । तज्जन्मनि ततः स्वापमापुस्ते कंसयामिकाः ॥५२॥ तदाऽऽहूय प्रियं प्राह, देवकी रथ मे सुतम् । वञ्चयित्वा द्विषं कंसं, मोच्योऽसौ नन्दगोकुले ॥५३।। यशोदा जननीवामुं, सानन्दा नन्दवल्लभा । पालयिष्यति यद् बालमुपचारैर्नवैर्नवैः ॥५४॥ वसुदेवोऽपि तन्मत्वा, तमादायाङ्गजं व्रजन् । पार्श्वस्थदेवीक्लृप्ताष्टदीप-च्छत्रजुषा पथा ॥५५॥ अथो धवलरूपेण, शिशुसान्निध्यदेवताः । पुरतो गोपुरद्वारकपाटान्युदघाटयन् ॥५६।। आयातो गोपुरे शौरिरुग्रसेनेन भाषितः । भास्वन्तं दर्शयन् बालं, सानन्दमिदमब्रवीत् ॥५७।। पुत्रव्याजेन शत्रुस्ते, कंसोऽनेन हनिष्यते । त्वमुद्धरिष्यसे मैवं, पुनः क्वापि प्रकाशयेः ॥५८॥ आकर्येत्युग्रसेनेन, हर्षादनुमतस्ततः । जगाम नन्दकान्ताया, यशोदाया निकेतनम् ॥५९॥ तस्यास्तमात्मजं शौरिः, समाथ तदात्मजाम् । तनयां समुपादाय, देवक्याः पुरतोऽमुचत् ॥६०॥ इति कृत्वा गते शौरौ, प्रबुद्धाः कंसयामिकाः । कन्यामिमां समादाय, कंसाय द्रागढौकयन् ॥६१॥ स्त्रीमयं सप्तमं वीक्ष्य, तं गर्भं निर्भयो नृपः । विदधे च्छिन्ननासाग्रां, मानी ज्ञानं हसन् मुनेः ॥६२॥
D:\maha-k.pm5\2nd proof