________________
5
10
15
20
25
३२० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथोचे व्यथितः साधुर्यन्निमित्तोऽयमुत्सवः । तस्य सप्तमगर्भेणोच्छेद्यौ त्वत्पितृ - वल्लभौ ॥३७॥ श्रुत्वेति मुनितो मुक्तमदा जीवयशा जवात् । गत्वा स्फारस्फुरत्खेदं, कंसायेदं न्यवेदयत् ॥३८॥ याच्यः सौहार्दतः सप्त, गर्भान् शौरिरसौ सुहत् । निश्चित्येदमगात् कंसो, वसुदेवं प्रियान्वितः ॥३९॥ प्रारब्धप्रेमवार्तासु, मत्तेनेवामदेन तत् । स मेने देवकीगर्भान्, सप्त कंसेन याचितः ॥४०॥ आकर्ण्य शौरिरन्येद्युरतिमुक्त
चिखिदे वञ्चितो गर्भयाञ्चायां सुहृदा च्छलात् ॥४१॥ §§ इतश्चासीन्नाग इति, श्रीभद्रिलपुरे वणिक् । प्रियाऽभूत् तस्य सुलसा, कुलसागरचन्द्रिका ॥४२॥ अतिमुक्ताभिधः साधुश्चारणोऽस्याश्च शैशवे । निन्दुरिन्दुमुखी सेयं, भाविनीति न्यवेदयत् ॥४३॥ परमश्राद्धयाऽऽराधि, सुरः कश्चित् तयाऽप्यथ । तुष्टोऽयाचि सुतानेष, प्राह ज्ञात्वाऽवधेस्ततः ॥४४॥ हन्तुं शौरिसुतान् प्रतिकूटात् कंसेन याचितान् । अहं सञ्चारयिष्यामि, निन्दोः सुतपदे तव ॥४५॥ इति देवः प्रतिज्ञाय, चक्रे शक्त्या स्वकीयया । देवकी-सुलसापत्यप्रसवे तुल्यकालताम् ॥४६॥ सुषुवाते समं ते तु, देवक्याः षट् सुतान् क्रमात् । सुलसायै ददौ देवो, देवक्यै सौलसान् मृतान् ॥४७॥ स्फारमास्फालयद् ग्राव्णि, कंसो निन्दुसुतान् स तान् । अवर्धन्त च देवक्याः, सूनवः सुलसागृहे ॥४८॥ नाम्नाऽनीकयशोऽनन्तसेनावजितसैनिकः । निहतारिर्देवयशाः, शत्रुसेनश्च ते श्रुताः ॥४९॥ १. 'ञ्चिता गर्भ खंता० ॥ २. 'स्याऽऽशु शै° खंता० ॥
D:\maha-k.pm5\ 2nd proof