________________
[३१९
द्वादशः सर्गः]
सा कान्तिसुमनोवल्ली, त्वं यौवनवनद्रुमः । युवयोस्तद् द्वयोर्लक्ष्मीवेश्मनोरस्तु सङ्गमः ॥२४।। तस्यां ननु वरो भावी, भवाननुवरस्त्वहम् । तदेहि देवकाद् याच्या, देवकन्येव देवकी ॥२५।। इदमालोच्य निश्चित्य, शौरिः कंसान्वितो गतः । नगर्यां मृत्तिकावत्यां, राजा सम्मुखमाययौ ॥२६।। बहिनिवेश्य सैन्यानि, देवकेन पुरस्कृतौ । पुरान्तर्जग्मतुः कंस-शौरी पौरनिरीक्षितौ ॥२७॥ अथोपविविशु पसदः प्राप्य त्रयोऽपि ते । त्रैलोक्यरक्षासामर्थ्य, मन्त्रयन्त इवाऽऽत्मसु ॥२८॥ सुहृत्प्रेमोमिहंसेन, तत: कंसेन देवकः । याचितः प्रीतिवार्तासु , वसुदेवाय देवकीम् ॥२९।। स स्वयं प्रार्थनीयेऽर्थे, प्रार्थ्यमानोऽथ देवकः । ऊचे वयं त्वदायत्ता, देवकी देव ! कीदृशी ? ॥३०॥ पुराऽपि नारदाख्यातगुणोद्यदनुरागयोः । तयोरथ विवाहोऽभूद् , देवकी-वसुदेवयोः ॥३१॥ देवकोऽथ दशार्हाय, बहुस्वर्णादिकं ददौ । नन्दं गोकोटियुक्तं च, दशगोकुलनायकम् ॥३२॥ वसुदेवोऽद्भुतानन्दस्ततो नन्दसमन्वितः । मथुरां सह कंसेन, प्रयातो दयितायुतः ॥३३।। सुहृत्पाणिग्रहोपज्ञं, कंसश्चक्रे महोत्सवम् । अमानमदिरापानमत्तनृत्यद्वधूजनम् ॥३४॥ कंसानुजोऽतिमुक्तोऽथ, पूर्वोपात्तव्रतः कृती । अगादोकसि कंसस्य, पारणाय महातपाः ॥३५।। वीक्ष्य मत्ता तमायान्तं, प्रीता कंसप्रिया ततः ।
एहि देवर ! नृत्यावो, जल्पन्तीति गलेऽलगत् ॥३६।। १. नोऽपि दे° खंता० ॥
D:\maha-k.pm5\2nd proof