________________
5
10
15
20
25
३१८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इति तद्वाक्यविश्वस्ता, सा स्थितैव भुजङ्गमी । सूतेन चूरिता गन्त्र्याऽस्थिभङ्गध्वनिकौतुकात् ॥११॥ सा ज्येष्ठे दधती प्रीतिमप्रीतिं न कनीयसि । गन्त्रीचक्रेण भङ्गाङ्गी, चक्कलण्डा व्यपद्यत ॥ १२॥ सा जाता प्रिया श्रेष्ठन् !, ज्येष्ठ स ललितस्त्वसौ । गङ्गदत्तः कनिष्ठस्तु, प्राक्कृतेन प्रिया - ऽप्रियौ ॥१३॥ इत्याकर्ण्य भवोद्विग्नः, श्रेष्ठी सूनुद्वयान्वितः । जैनं प्राप व्रतं पापमतङ्गजमृगधिपम् ||१४|| तौ श्रेष्ठि-ललितावायुः, पूरयित्वा तपोनिधी | देवलोकं महाशुक्रं, जग्मतुस्तिग्मतेजसौ ॥१५॥ जगाम विश्ववाल्लभ्यमिदानीं गङ्गदत्तकः । तपस्तपनपूर्वाद्रिस्तमेव त्रिदशालयम् ॥१६॥ च्युत्वा ललितजीवोऽयं, तन्महाशुक्रकल्पतः । रोहिण्या वसुदेवस्य, प्रेयस्या उदरेऽभवत् ॥१७॥ वदने विशतः स्वप्ने, हलभृज्जन्मसूचकान् । सा मृगाङ्ग-मृगेशा-ऽब्धीन्, निशाशेषे व्यलोकयत् ॥१८॥ ततोऽङ्गतेजसा ध्वान्तद्रोहिणं रोहिणी सुतम् । असूत भूतधात्रीव, तर्जितद्युमणि मणिम् ||१९|| रामो नाम्नाऽभिरामत्वात्, पितृभ्यां तत्प्रतिष्ठितः । क्रीडन् भोगीव बालोऽपि, जातः परभयङ्करः ॥२०॥ वसुदेवोऽन्यदाऽऽहूतः, कंसेन प्रीतिशालिना । ययौ राजानमापृच्छ्य, मथुरायाममन्थरः ||२१|| वसुदेवमथ प्राह, कंसो जीवयशोऽन्वितः । अस्तीन्द्रपुरनिर्यासो, नगरी मृत्तिकावती ॥२२॥ राजा तत्र पितृव्यो मे, देवकः सेवकप्रियः । वर्तते नर्तितश्रीका, सुता तस्यापि देवकी ||२३|| १. 'हिणी रोहि° खंता० ॥ २. 'व, निर्जित' खंता० ॥
D:\maha-k.pm5\ 2nd proof