________________
द्वादशः सर्गः ॥
इतश्च कश्चन श्रेष्ठी, जज्ञे श्रीहस्तिनापुरे । ललितस्तत्सुतो मातुः, प्राणेभ्योऽपि प्रियोऽभवत् ॥१॥ अथान्यो गर्भतो दुःखदाता मातु कृतज्वरः । पातहेतून् वृथाकृत्य, द्वैतीयीक: सुतोऽभवत् ॥२॥ स दास्या त्याजितो मत्वा, पित्रा च्छन्नीकृतः किल । ववृधे गङ्गदत्ताख्यो, लालितो ज्येष्ठबन्धुना ॥३॥ ललितः श्रेष्ठिनं प्रोचेऽन्येधुरेष गृहे यदि ।। भोज्यते गङ्गदत्तस्तत् , सुन्दरं तात ! जायते ॥४॥ स्वमातुश्छन्नमेवैतत् , कार्यमेवमुवाच सः । ललितोऽथ तमानीय, तल्पस्याधो न्यषादयत् ॥५।। ललितक्षिप्तमन्नं च, भुञ्जानं हर्षनिर्भरम् । गङ्गदत्तं कथञ्चित् तं, व्यालोक्य जननी क्रुधा ॥६॥ दण्डकाष्ठं समुद्यम्य, गृहीत्वा चिहुरव्रजे । क्षणान्निष्कासयामास, कुट्टयन्ती मुहुर्मुहुः ॥७॥ युग्मम् ॥ तमेवानुगतौ श्रेष्ठि-ललितौ कलितौ शुचा ।
पुरो वीक्ष्य मुनि तस्य, मातृवैरमपृच्छताम् ॥८॥ $$ ऊचे मुनिः क्वचिद् ग्रामे, बन्धू अभवतामुभौ ।
एकदा शकटं काष्ठैः, पूर्णं ग्रामाय निन्यतुः ॥९॥ ज्येष्ठः पुरश्चरन् मार्गे, चक्कलण्डां महोरगीम् ।
वीक्ष्य प्रोचेऽनुजं सूतं, रक्ष्याऽसौ शकटादिति ॥१०॥ १. °जितो ज्ञात्वा, खंता० पाता० ॥ २. °जं स्वं तं, रक्षासौ खंता० ॥
D:\maha-k.pm5\2nd proof