________________
३१६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विवोढा पूर्वोढा निजनिजपुरेभ्यो मृगदृशः, समादाय भ्राम्यन् दिशि दिशि दशार्होऽथ दशमः । समागत्य व्योम्ना स्वपुरमपरैः खेचरचमूसमूहेर्लक्ष्मीवाननमत समुद्रं स्मितमतिः ॥७८९॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये
वसुदेवयात्रावर्णनो नामैकादशः सर्गः समाप्तः ॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥१॥
॥ ग्रन्थाग्रम् ७९८ । उभयम् ३९४३॥
१. ग्रन्थाग्रम् ८०४॥ उभयम् ४०१९ खंता० ॥
D:\maha-k.pm5\2nd proof