________________
10
एकादशः सर्गः]
[३१५ पाणौ बाणमथाऽऽदाय, समुद्रोऽवाचयल्लिपिम् । तदा च्छलेन यातस्त्वां, वसुदेवो नमाम्यहम् ॥७७७।। वत्सलो वत्स ! वत्सेति, समुद्रोऽथ वदन्नदः । अभ्यधावद् रथं मुक्त्वा, तं प्रतीन्दुमिवाम्बुधिः ॥७७८।। प्रीतिमान् वसुदेवोऽपि, समुत्तीर्य समुत्सुकः । निपतन् पादयोर्दोामुद्धृत्यानेन सस्वजे ॥७७९॥ क्व स्थितस्त्वमियत्कालमिति पृष्टोऽग्रजन्मना । समग्रमात्मनो वृत्तं, वसुदेवो न्यवेदयत् ।।७८०।। वार्ष्णेयो दशमः सोऽयमिति मत्वा पराक्रमात् । दधिरे रुधिरोर्वीश-जरासन्धादयो मदम ॥७८१।। प्रसङ्गायातनि:शेषभूपालविहितोत्सवम् । पुण्येऽह्नि वसुदेवोऽथ, रोहिणीं परिणीतवान् ॥७८२।। जरासन्धादयो जग्मुर्भूभुजो रुधिरार्चिताः ।
तत्रैव यदवः सर्वे, तस्थुः कंसान्विताः पुनः ॥७८३॥ ६६ अन्येधुर्जरती काऽपि, श्रीसमुद्रेण सभाजुषि ।
आगत्य गगनोत्सङ्गाद् , वसुदेवमवोचत ।।७८४॥ मम पुत्र्यौ चिराद् बालचन्द्रा वेगवती तथा । त्वद्वियोगातुरे देव !, सञ्जाते बाढदुर्बले ॥७८५॥ इति श्रुत्वा मुखं पश्यन् , समुद्रेण स भाषितः । गच्छ वत्स ! चिरं तत्र, मा स्म स्थाः पूर्ववत् पुनः ॥७८६।। इत्याकर्ण्य तया साकं, वसुदेवो दिवा ययौ । तदागमोत्सुकः प्राप, समुद्रोऽपि स्वपत्तनम् ॥७८७।। कन्ये काञ्चनदंष्ट्रस्य, खेचरेन्द्रस्य वृष्णिभूः ।
उपयेमे प्रसन्नस्ते, पुरे गगनवल्लभे ॥७८८।। १. नचन्द्रस्य, खे° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof