________________
३१४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रुत्वा शौरेगिरं दावकीलालीलामिमामथ । तद्वधाय जरासन्धः, स्वभूपान् समनीनहत् ॥७६४।। सन्नद्धनिजसैन्योऽथ, रुधिरोऽपि धराधिपः । जरासन्धेन युद्धाय, क्रुद्धः शौरेः पुरोऽस्फुरत् ॥७६५।। सारथीभूय शोडीरावधिदधिमुखाभिधः । खेचर: समरक्रूरं, रथे शौरिमवीविशत् ।।७६६।। वेगाद् वेगवतीमात्राऽङ्गारमत्याऽर्पितानि तत् । चण्ड: कोदण्ड-तूणानि, जगृहे विग्रहाग्रही ॥७६७।। जरासन्धधराधीशै, रुधिरं युधि रंहसा । भग्नं वीक्ष्य गिरा शौरेः, खेचरो रथमैरयत् ॥७६८।। शौरिं स्ववर्यभूमीभृत्कुम्भिकेसरिणं रणे । पश्यन्नूचे जरासन्धः, समुद्रविजयं प्रति ॥७६९।। न पाणविकमात्रोऽयं, तदेनं साधय स्वयम् । वनं भञ्जन्निभः केन, रक्ष्यः पञ्चाननं विना ? ॥७७०।। शूरमेनं निराकृत्य, त्वं भवन् रोहिणीधवः । मद्यशःकुमुदं स्मेरीकुरुष्वान मुद्रितम् ॥७७१।। वृतान्यनरनिष्ठाया, न धवोऽस्या भवाम्यहम् । जेयोऽसौ तु त्वदादेशादित्युत्तस्थौ समुद्रराट् ॥७७२।। ततः समुद्रमुन्मुद्रवेलं खेलन्तमाहवे । अवलोक्य स्म कुर्वन्ति, देवाः कल्पान्तविभ्रमम् ॥७७३।। युयुधाते क्रुधा तेजस्तिरस्तकृतदिवाकरौ । शौरी दूरीकृतत्रासावथ प्रथम-पश्चिमौ ॥७७४।। कृतस्य प्रतिकुर्वाणावविशेषतया चिरम् । अयुध्येतामुभौ धीरौ, नृणां कृतचमत्कृती ॥७७५।। समुद्रविजयं सम्यगधिगम्य विनीतधीः ।
चिक्षेप साक्षरं नम्र, वसुदेवः शरं पुरः ॥७७६।। १. पुरोऽविशत् खंता० ॥
20
D:\maha-k.pm5\2nd proof