________________
[३१३
एकादशः सर्गः]
जराभिधां स्मराटोपभल्ली पल्लीन्दुनन्दनीम् । तत्रोपयेमे रेमे च, चन्द्रिकामिव चन्द्रमाः ॥७५२॥ तस्यां जराकुमाराख्यं, समुत्पाद्याथ नन्दनम् । विचरन्नन्यतोऽभाषि, साक्षाद् देव्या कयाचन ॥७५३।। कन्या रुधिरभूपस्य, दत्ता ते रोहिणी मया । व्रज पाणविकीभूय, तूर्णं तस्याः स्वयंवरे ॥७५४।। इत्युक्तः स तया शौरिगतिऽरिष्टपुरं प्रति । जरासन्धादिभूपाढ्यस्वयंवरणमण्डपे ॥७५५।। रूपेण त्रिजच्चित्तारोहिणी रोहिणी ततः । स्वयंवरणमाल्ये,न राजमानाऽऽजगाम सा ॥७५६।। शृङ्गारितेऽप्यरूपेऽस्मिन् , राजकेऽस्याः स्थिता न दृक् । वर्ण्यवर्णेऽपि निर्गन्धे, कर्णिकार इवालिनी ॥७५७।। शौरिरेषोऽन्यवेषोऽथ, विस्फूर्जस्तूर्यवादिषु । वादयामास पटहमित्थं पटुभिरक्षरैः ॥७५८।। आगच्छाऽऽगच्छ मां तन्वि !, नन्वितः किमु वीक्षसे ? । अस्मि त्वदनुरूपोऽहं, कृतोत्कण्ठः सुकण्ठि ! यत् ॥७५९॥ वादयन्तमिति प्रेक्ष्य, शौरि शूरनिभप्रभम् । रोहिणी रोहदानन्दाऽनन्दयद् वरमालया ॥७६०।। अथ पाटहिके तस्मिन् , वृते रुधिरकन्यया । अहसन् सहसा सेयँ, सर्वेऽप्युर्वीशकुञ्जराः ॥७६१।। अहो ! कौलीन्यमेतस्याः, कुलीनमवृणोद् यतः । इति वार्ता मिथश्चक्रुः, पश्यन्तो रुधिरं च ते ॥७६२॥ अथ तेषु सहासेषु , प्राह पाटहिकः क्रुधा । दोर्दण्डे यस्य कण्डतिः कौलीन्यं तस्य दर्श्यते ॥७६३।।
15
१. पल्लीशितुः सुताम् । तत्रो खंता० ॥ २. विहर खंता० ॥ ३. पाढये, स्व' खंता० ॥
D:\maha-k.pm5\2nd proof