________________
5
10
15
20
25
३१२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यच्छत्रधारणं क्षीरपारणं च मुनेः कृतम् । त्वया धन्येन धन्येन, तेनायं विभवस्तव ॥ ७३९॥ भैमी त्वद्वल्लभा वीरमतीजन्मनि यन्मुदा । अष्टापदेऽर्हतां रत्नतिलकानि व्यधापयत् ॥ ७४०॥
करप्रकरविस्तारकिङ्करीकृतभास्करः । तदस्याः शाश्वतो भाले, तिलको भाति भासुरः ॥७४१॥ युग्मम् ॥ §§ इति प्राग्भवमाकर्ण्य, समं दयितया नलः । पुष्कलाख्ये सुते राज्यं, नियोज्य व्रतमाददे ॥ ७४२॥ व्रतेनातीव तीव्रेण, कृतव्रतिचमत्कृती । एतौ यशः सुधापूरैः, शुभ्रयामासतुर्दिशः ॥७४३|| नेलो विलोक्य वैदर्भीमन्यदा मदनातुरः । गुरुभिर्न्यत्कृतः स्वर्गादेत्य पित्रा प्रबोधितः ॥७४४|| तन्नलोऽनशनं भेजे, व्रतपालनकातरः । नलानुरागतः साध्वी, प्रपेदे भीमभूरपि ॥ ७४५ ॥ वसुदेव ! नलः सोऽहं सञ्जातोऽस्मि धनाधिपः । विपद्य साऽपि वैदर्भी, बभूव मम वल्लभा ॥७४६॥ अथेयं झटिति च्युत्वा ततः कनकवत्यभूत् । तेन पूर्वानुरागेण, बद्धः सोऽहमिहाऽऽगमम् ॥७४७|| इहैव कर्म निर्मूल्य, सेयं यास्यति निर्वृतिम् । इत्याख्यन्मे विदेहेषु, विमलस्वामितीर्थकृत् ॥७४८॥ इत्य्कुत्वा वसुदेवस्य, पुरः किंपुरुषेश्वरः । शारीरैः पूरयन्नंशुपूरै रोदस्तिरोदधे ॥७४९॥ §§ वसुदेवोऽन्यदा खेलन्, खेचरीभिः सहान्वहम् । सूर्पकेणैकदा जह्रेऽमोचि गङ्गाजले ततः ॥७५०|| उत्तीर्य वीर्यवान् गङ्गां, पल्लीं कामपि जग्मिवान् । असौ परिभ्रमन् साकं, पथिकैः पथि कैश्चन ॥७५१॥ १. भास्वरः खंता० ॥। २. नलोऽवलो खंता० ॥
D:\maha-k.pm5\ 2nd proof