________________
[३११
एकादशः सर्गः]
न तिष्ठत्यम्बुदो वर्षन् , साधुः स्थैर्यं न मुञ्चति । धन्यस्त्यजति न च्छत्रं, त्रयोऽपि स्पर्द्धिनोऽभवन् ॥७२७।। सप्तमेऽह्नि निवृत्तेऽब्दे, कायोत्सर्गमपारयत् । मुनिः पूर्णप्रतिज्ञोऽसौ, ततो धन्येन वन्दितः ॥७२८।। स्वस्थवृत्तिरथापृच्छन्मुनीशं धूसरीवरः । भवतां व्रजतां कुत्र, मेघोऽयं विघ्नतां गतः ? ॥७२९।। अथावदददः साधुर्लङ्कायां गुरुसन्निधौ । गच्छतो मम मेघेन, प्रारेभे वृष्टिरीदृशी ॥७३०॥ अभिग्रहं गृहीत्वा च, तवृष्टिविरमावधिम् । कायोत्सर्गं व्यधां तत्र, त्वया साहायकं कृतम् ॥७३१॥ ततः सद्मनि धन्येन, सममाकारितो व्रती । निषिध्य महिषारोहं, प्राचालीत् पङ्किले पथि ॥७३२।। क्षैरेयीपारणं पुण्यकारणं सप्तमेऽहनि । मुनीशं कारयामास, शुद्धात्मा धूसरीधवः ॥७३३।। करुणातरुणीहारो, विहारोद्यमविक्रमी । वर्षात्यये यथाकामं, ग्रामाद् ग्रामं जगाम सः ॥७३४|| धन्योऽपि मुनिना दत्तं, श्रावकत्वं प्रियान्वितः । पालयित्वा चिरं हैमवते युगलधर्म्यभूत् ।।७३५।। ततोऽपि क्षीरदण्डीराभिधानौ दम्पती दिवि । शोभमानौ प्रभूताभिस्तावभूतां विभूतिभिः ॥७३६।। तच्च्युत्वा क्षीरदण्डीरजीवोऽभून्नैषधिर्भवान् । प्रिया ते क्षीरदण्डीरादेवीजीवश्च भीमभूः ॥७३७।। यद् द्वादश घटीर्दघे, मम्मणेन त्वया मुनिः । तत्प्रियाविरहो राज्यभ्रंशश्च द्वादशाब्दिकः ॥७३८॥
१. स्वच्छवृत्तिरथा' पाता० । स्वच्छवृत्तिमथा खंता० ॥ २. रीधवः पाता० ॥ ३. सं० विनाऽन्यत्र-व्यधात् तत्र, वता० खंता० ॥ ४-५-६. रडिण्डी° पाता० ॥
D:\maha-k.pm5\2nd proof