________________
5
10
15
20
25
३१० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मन्वन्नशकुनं सोऽथ, धारयामास तं क्रुधा | तद् द्वादशघटीप्रान्ते, कृपयाऽमूमुचत् पुनः ॥७१४॥ तदहिंसामयो धर्मः, साधुनाऽस्मै निवेदितः । राज्ञाऽप्यङ्गीकृतो वीरमत्या दयितया समम् ॥७१५॥ ताभ्यां राजसभावेन, तद् व्रती प्रतिपालितः । अपराधं क्षमस्वेत्थमुक्त्वा मुक्तो जगाम सः ॥ ७१६॥ सेवाप्रसादिता वीरमतीं शासनदेवता । धर्मस्थैर्यकृते निन्येऽन्येद्युरष्टापदोपरि ||७१७॥ अकृत प्रतितीर्थेशं, विंशतिं विंशति ततः । आचाम्लानि चमत्कारिभक्तिचारुः सुलोचना ॥ ७१८॥ तथा तिलकमेकैकं, जिनेशानां व्यधापयत् । सौवर्णमर्ण:सम्पूर्णमणिसन्दर्भगर्भितम् ॥७१९॥ तदुद्यापनकं कृत्वा, प्रीता भूकान्तकामिनी । मुनीनानन्द्य दानेन, चारणान् पारणां व्यधात् ॥७२०|| तत् तीर्थेशपदाम्भोजसेवाहेवाकशालिनी । राजधानीं राजवधूराजगाम प्रमोदिनी ॥ ७२१|| चिराराद्धजिनाधीशधर्मनिर्मलितावथ । व्यपद्येतामुभौ वीरमती-मम्मणभूपती ॥७२२॥ भूपजीवोऽथ बहलीदेशान्तः पोतने पुरे । आभीरधम्मिलाभस्य, सुतोऽभूद् रेणुकाङ्गभूः ॥७२३|| तस्यैव धन्यसञ्ज्ञस्य, धूसरी नाम वल्लभा । आसीद् वीरमतीजीवः, पूर्ववत् प्रेमभाजनम् ॥७२४॥ वर्षासु महिषीर्धन्यश्चारयन्नन्यदा वने । वर्षत्यम्भोधरेऽपश्यदेकपादस्थितं मुनिम् ॥७२५॥ न्यधात् तदुपरि च्छत्रं, धन्यो भावनया ततः । अपारवारिभृद्धाराधोरणीवारणक्षमम् ॥७२६॥
१. प्रतिलाभितः खंता० ॥ २. विपद्याभवतामेतौ दम्पती दिवि पूर्ववत् ॥ खंतासं० ॥
D:\maha-k.pm5\ 2nd proof