________________
एकादशः सर्गः ]
कैश्चित् प्रयाणकैः प्राप, नलः कोशलपत्तनम् । नमयन् पृतनाक्रान्तं, पातालेन्द्रमपि क्षणात् ॥ ७०१॥ आकर्ण्य कोशलोद्यानविद्यमानबलं नलम् । अथो यमातिथिम्मन्यश्चकम्पे कूबरो नृपः ॥७०२ ।। पुनर्लक्ष्मीं पणीकृत्य, द्यूतार्थं दूतभाषया । नलः कूबरमाकार्य, दीव्यन् जित्वाऽग्रहीन्महीम् ॥७०३|| अथाऽऽनन्दी नलो मन्दीकृतक्रोधो निजानुजम् ।
अपि क्रूरं व्यधाद् यौवराज्ये प्राज्यमहोत्सवात् ॥७०४|| अथ सम्प्रेष्य निःशेषं, राजकं राजकुञ्जरः । कोशलाचैत्यचक्रेषु, चक्रे कान्तान्वितोऽर्चनाम् ॥७०५॥ बहून्यब्दसहस्राणि, भैम्या सह सहर्षया । त्रिखण्डां खण्डितारातिरपालयदिलां नलः ॥७०६||
§§ एत्य देवो दिवोऽन्येद्युर्निषधो न्यगदन्नलम् । फलं गृहाण मानुष्य भूरुहस्य व्रताभिधम् ॥७०७|| प्राग् मया प्रतिपन्नं ते, व्रतकालनिदेशनम् । तद् वृथा मा विलम्बिष्ठा, यात्यायुर्जलबिन्दुवत् ॥७०८|| इत्युक्त्वाऽस्मिन् गते देवे, नलः कान्तान्वितो ययौ । जिनसेनाभिधं सूरिं, विज्ञातागमनं तदा ॥७०९ ॥ प्रणम्य नैषधिः सूरिं निविष्टः क्षितिविष्टरे । पप्रच्छ स्वस्य देव्याश्च, कारणं सुख-दुःखयोः ॥७१०॥ निर्लूनमन्मथो वाचमथोवाच महामुनिः । प्रदत्तमिश्रशर्माणि, प्राक्कर्माणि शृणु क्षणात् ॥७११॥ §§ जम्बूद्वीपशिरोरत्नं, भरतक्षेत्रभूषणम् ।
अष्टापदसमीपेऽस्ति, श्रीसङ्गरपुरं पुरम् ॥७१२||
तत्राऽऽसीन्मम्मणो राजा, तस्य वीरमती प्रिया । अन्यदाऽऽखेटके गच्छन्, भूपोऽपश्यत् पुरो मुनिम् ॥७१३॥
D:\maha-k.pm5\ 2nd proof
[ ३०९
5
10
15
20
25