________________
5
10
15
20
25
३०८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् साम्बुनेत्राञ्जलिभ्यां सा, तुल्यं दयित - कामयोः । तदान्त:कान्तिदूर्वाभ्यां, व्यधादर्घमनर्घ्ययोः ॥६८८॥ अदर्शि दर्शनीयश्रीरथाऽऽयातो बहिर्जनैः । नैषधिस्त्यक्तकुब्जत्वो, राहुमुक्त इवांशुमान् ॥ ६८९।। अपराद्धं यदज्ञानान्मया नाथ ! क्षमस्व तत् । दधिपर्णोऽवदन्नेवमपतन्नलपादयोः ||६९०॥ स्वयं वेत्रीभवन् भीमो भद्रपीठे निवेश्य तत् । अभ्यषिञ्चन्नलं नाथस्त्वमस्माकमिति ब्रुवन् ॥६९१॥ ऋतुपर्णः प्रियायुक्तः, सार्थेशोऽपि वसन्तकः । सुख-दुःखांशदायादावाहूतौ नलकान्तया ||६९२॥ वसन्त-दधिपर्ण-र्तुपर्ण - भीमैः समं नलः । चिक्रीड लोकपालैः स, चतुर्भिरिव पञ्चमः ||६९३॥ धनदेवोऽपि सार्थेशः कुतोऽपि प्राप कुण्डिनम् । तस्य प्रत्युपकारं सा, कारयामास भूभुजा ॥ ६९४ ॥ कश्चिदेत्य दिवोऽन्येद्युर्देवः पश्यत्सु राजसु । भैमीं नत्वाऽवदद् देवि !, त्वत्प्रसादो मयीदृशः ||६९५॥ सम्बोध्य तापसेन्द्रोऽहं, पुरा प्रव्राजितस्त्वया । विमाने केसरेऽभूवं, सौधर्मे केसरः सुरः ||६९६॥ इत्युक्त्वा सप्त कल्याणकोटीर्वर्षन् पुरः सुरः । विद्युद्दण्ड इवोद्दण्डः, समुत्पत्य तिरोदधौ ॥६९७|| नलादेशेन देशेभ्यः, स्वेभ्यः स्वेभ्यस्ततो नृपाः । ऋतुपर्णादयः स्वं स्वं, सैन्यमानाययन् जवात् ॥ ६९८॥ नलस्तदैव दैवज्ञदत्तेऽह्नि प्रति कोशलाम् । प्रयाणं कारयामास, वासवोपमविक्रमः ॥ ६९९॥ भूभृतः सैन्यचारेण, स्थावरानपि कम्पयन् । देवभूतमपि क्षोदैः, स्थगयन् सूरमण्डलम् ॥७००॥ १. 'दोऽयमीह° खंता० ॥ २. दधे खंता० ॥
D:\maha-k.pm5\ 2nd proof