________________
10
एकादशः सर्गः]
[३०७ तदुक्तो दधिपणेन, कुब्जो रसवतीं व्यधात् । इन्दुपुष्टिकृदकॊशुसम्पर्कसुरसीकृताम् ॥६७५।। लोकैः साकं रसवती, बुभुजे भूभुजाऽथ सा । विचाराक्षमवैदग्धैमिथ:पश्यद्भिराननम् ॥६७६।। आनायितां परीक्षार्थमथैतां भीमभूपभूः । स्वादयित्वा रसवतीं, कुब्जं निरचिनोन्नलम् ॥६७७।। तद् वैदर्भी विदर्भेशं, प्रत्याह प्रीतिपूरिता । आस्तां कुब्जोऽपि खञ्जोऽपि, निश्चित: सैष नैषधिः ॥६७८।। ज्ञानिना मुनिमुख्येन, कथितं मत्पुर: पुरा । नलो रसवतीमर्कपाकां जानाति नापरः ॥६७९।। सा(स्वा)भिज्ञानान्तरं तात !, पुनरेकं समस्ति मे । नलस्पर्शेन विपुलपुलकं यद् भवेद् वपुः ॥६८०।। तन्मदङ्गमयं कुब्जः, स्तोकं स्पृशतु पाणिना । इत्युक्ते भीमवचसा, तामङ्गुल्या नलोऽस्पृशत् ॥६८१।। वपुः सपुलकं तस्यास्तन्नलस्पर्शतः क्षणात् । प्रीतिपूरबहिःक्षिप्तास्तोकशोकमिवाभवत् ॥६८२।। अन्तभैमी नलं निन्ये, तद् बलादबलाऽप्यसौ । अतूतुषत् तथा चाटुप्रेमामृतकिरा गिरा ॥६८३।। दमयन्त्युपरोधेन, नलश्छन्न इवानलः । जज्ञे बिल्वकरण्डाभ्यामाविष्कृतनिजाकृतिः ॥६८४॥ धृतस्वरूपं तद्रूपं, वीक्ष्य कं कं रसं न सा । भेदे भीमसुता धाष्र्य-त्रपासम्पातकातरा ? ॥६८५।। तदा भाति स्म वैदर्भी, स्वेदाम्भ:कणभासुरा । उपशान्तवियोगाग्निः, स्नाता हर्षाम्भसीव सा ॥६८६।। अभितो वीज्यमानाङ्गी, नलनेत्राञ्चलैश्चलैः ।
सद्यः स्वेदोदकस्नाता, सा चकम्पे चकोरदृक् ॥६८७|| १. रभीकृ खंतासं० ॥ २. तं भूपं, खंता० ॥
20
25
D:\maha-k.pm5\2nd proof