________________
३०६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यावद् गणयते तावत् , तावन्त्येवाभवत् पुरः । अश्वहद्विद्यया सङ्ख्याविद्यां कुब्जस्तदाऽऽददे ॥६६२॥ धावन्नथो रथोऽनायि, स्थैर्यं कुब्जेन सत्वरम् । भीमपुर्या मुखे तारतिलकायितकेतनः ॥६६३।। अथ तस्या निशः प्रान्ते, भैमी स्वप्नमलोकयत् । हृष्टा तद्भीमभूपाय, समागत्य न्यवेदयत् ॥६६४॥ स्वप्नेऽधुना मयाऽदर्शि, तात ! निर्वृतिदेवता । इहाऽऽनीय तया व्योम्नि, दर्शितं कोशलावनम् ॥६६५।। सहकारमिहाऽऽरोहं, तगिराऽहं फलाकुलम् । समार्फात स्मितं पाणौ, तया तामरसं ततः ॥६६६॥ मदारोहात् पुरारूढः, पतन् कोऽप्यपतत् तदा । आम्राद् भुवि रविक्रान्तादभ्रात् पूर्ण इवोडुपः ॥६६७।। अथ भीमोऽवदत् पुत्रि !, प्रापि स्वप्नोऽयमुत्तमः । निर्वृतिस्तव भाग्यश्रीर्मता तनुमती ननु ॥६६८॥ कोशलावैभवं भावि, कोशलावनवीक्षणात् । सफलाम्राधिरोहेण, सराज्य-रमणागमः ॥६६९।। निपतन् यः पतन् कोऽपि, त्वयाऽदर्शि रसालतः । भवत्याऽध्यासिताद् राज्यात् , पतिष्यति स कूबरः ॥६७०।। अद्य सद्यः स्वचित्तेशसङ्गस्तव भविष्यति । यः प्रातः प्राप्यते स्वप्नः, सद्यः स हि फलेग्रहिः ॥६७१।। तदाऽऽयातं पुराऽभ्यर्णे, दधिपर्णधराधवम् । आगत्याचीकथत् कोऽपि, श्रीभीमाय महीभुजे ॥६७२।। अथ सम्मुखमागत्य, श्रीमान् भीमरथो नृपः । सम्मानेन पुरोत्सङ्गे, दधिपर्णमवीविशत् ॥६७३।। ऊचे मिथ: कथागोष्ठ्यां, दधिपण विदर्भराट् ।
कुब्जाद् रसवती सूर्यपाकां कारय मन्मुदे ॥६७४॥ १. राधिपम् खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof