________________
[३०५
10
एकादशः सर्गः]
वर्षिष्यति विषैरिन्दुर्वदिष्यत्यनृतं मुनिः । किमन्यमपि भर्तारं, दमयन्ती करिष्यति ? ॥६४९।। विवोढुं प्रौढिमा कस्य, मत्पत्नीं मयि जीवति ? । सिंहेऽभ्यर्णगते सिंहीं, मानसेनापि कः स्पृशेत् ? ॥६५०।। इति ध्यात्वा चिरं चित्ते, दधिपणे जगाद सः । आसन्नलग्न-दूरो/गतिचिन्तापरायणम् ॥६५१॥ समर्पय हयान् जात्यान् , रथं गाढं च कञ्चन । यथाऽहमश्ववेदी, नये झटिति कुण्डिने ॥६५२॥ इति प्रीतिमताऽऽकर्ण्य, दधिपणेन भूभुजा । उक्तोऽग्रहीच्चतुर्वाही, रथं चाहीनपौरुषम् ॥६५३।। अथ चामरभृद्युग्म-च्छत्रभृद्भूपभासुरम् । नियुक्तवाजिनं कुब्जो, रथं तूर्णमवाहयत् ॥६५४॥ नुन्नरथ रथे वाहैर्जवनैः पवनैरिव । अपतद् भूपतेरंसात् , पटी शैलादिवाऽऽपगा ॥६५५।। राजा तदाऽवदत् कुब्ज !, स्थिरीकुरु हयानिमान् । एतदादीयते यावद् , वासो वसुमतीगतम् ॥६५६।। जगाद कुब्जको राजन्नपतद् यत्र तेंऽशुकम् । पञ्चविंशतियोजन्या, साऽमुच्यत वसुन्धरा ॥६५७॥ न राजन् ! वाजिनोऽमी ते, तादृक्षगुणलक्षिताः । इयत्या वेलया यान्ति, पञ्चाशद् योजनानि ये ॥६५८।। अक्षवृक्षमथो वीक्ष्य, कलां दर्शयितुं निजाम् । कियन्त्यस्मिन् फलानीति, राजा कुब्जकमब्रवीत् ॥६५९।। अजानति ततः कब्जे. फलसङख्यां धराधवः । आख्यदस्मै परिस्पष्टमष्टादशसहस्रिकाम् ॥६६०।। मुष्टिघातेन दिग्दन्तिघातघोरेण तन्नलः ।
अपातयदशेषाणि, फलानि कलिपादपात् ॥६६१॥ १. नयै झटिति कुण्डिनम् खंता० ।।
20
D:\maha-k.pm5\2nd proof