________________
३०४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अभोज्यत स कुब्जेन, रसवत्याऽर्कपाकया । स्वर्णादिकं नृपाल्लब्धं, दत्त्वा च प्रीणितस्ततः ॥६३७॥
अथायं कुब्जमापृच्छ्य, गतः कुण्डिनपत्तनम् । तदीयं दान-भोज्यादि, सर्वमुर्वीभुजेऽभ्यधात् ॥६३८।। तं निशम्याऽवदद् भैमी, मुदिता मेदिनीपतिम् । नल एव स कुब्जत्वं, ययौ केनापि हेतुना ॥६३९।। तद्दानं सा मतिः सूर्यपाका रसवती च सा । सन्ति नान्यत्र कुत्रापि, युष्मज्जामातरं विना ॥६४०॥ तामालोच्य ततस्तात !, समुन्मेषय शेमुषीम् ।। नलो यया रयादेव, प्रकटीभवति स्वयम् ॥६४१॥ सोत्साहमाह भूपस्तच्चरं सम्प्रेष्य कञ्चन । आकार्यो दधिपर्णोऽयं, त्वत्स्वयंवरणच्छलात् ॥६४२।। गत्वा यथार्थवर्णोऽयं, कथयिष्यति तं प्रति । श्वस्तने यद्दिने भावी, दमयन्त्याः स्वयंवरः ॥६४३।। तत्पावें यदि कुब्जोऽयं, नलः स्यादवनीधवः । तदश्वहृदयाभिज्ञस्तमानेष्यत्यसौ द्रुतम् ॥६४४।। इति निश्चित्य भीमेन, भूभृता प्रेषितश्चरः । सुंसमारपुरं गत्वा, दधिपर्णमदोऽवदत् ॥६४५।। न प्रापि नलवार्ताऽपि, क्वापि तेन करिष्यति । भूयः स्वयंवरं भैमी, प्रभुणा प्रेषितोऽस्मि तत् ॥६४६।। किन्तु मार्गे विलम्बोऽभूद् , देहस्यापाटवान्मम । प्रत्यासन्नतरं जातं, तल्लग्नं श्वस्तने दिने ॥६४७॥ तूर्णं देव ! तदेतव्यमित्युक्त्वाऽस्मिन् गते चरे ।
अचिन्तयन्नलश्चित्ते, किमेतदिति विस्मितः ॥६४८।। १. सं० विनाऽन्यत्र-त्त्वाऽऽशु प्री वता० । 'त्वा तत् प्री खंता० ।। २. दवदन्त्याः खंता० ॥
15
D:\maha-k.pm5\2nd proof