________________
10
एकादशः सर्गः]
[३०३ पितरं तरसा वीक्ष्य, रसाद् युग्यं विमुच्य सा । अनमत् क्रमराजीवयुग्मविन्यस्तमस्तका ॥६२४।। पङ्किलं तं किलोद्देशमस्रम्भःसम्भ्रमो व्यधात् । विनम्रणाम्बुजेनेव, मुखेन तु स भूषितः ॥६२५।। अथ राज्ञा सहायातामियं मातरमातुरा । नमश्चकार हर्षाश्रुमुक्तास्तबकितेक्षणाम् ॥६२६।। सकलेनापि भूनाथलोकेनाथ नमस्कृता । कुण्डिनं मण्डयामास, सा त्रैलोक्यशिरोमणिः ॥६२७।। गुरु-देवार्चनै राजा, पुरे सप्तदिनावधि । महोत्सवमहोरात्रमतिमात्रमकारयत् ॥६२८।। साक्षात् तत्रास्ति धात्रीशनलध्यानधुरन्धरा । कृशा कृशानुकल्पेन, विरहेण विदर्भजा ॥६२९।। कथयन्ती कथामित्थं, स्वयं स्वजननीं प्रति । मयाऽश्रूयत वैदर्भी, तुभ्यमावेदितं च तत् ॥६३०॥ इदानीं तु भवद्भूतः कोऽपि भूपालमभ्यधात् । यदस्ति दधिपर्णस्य, पार्वे कुब्जः कलानिधिः ॥६३१।। नलस्य सूपकारोऽहमिति वक्ति करोति च । अधीतां नलतः सूर्यपाकां रसवतीमसौ ॥६३२॥ इत्याकर्ण्य समीपस्था, भैमी भूमीशमभ्यधात् । नान्यो रसवतीवेत्ता, कुब्जोऽभून्नल एव सः ॥६३३।। द्रष्टमेनमहं देव !, तद्भीमेन नियोजितः । धिक् कुब्जेऽस्मिन् नलाशङ्का, कृष्णागारे मणिभ्रमः ॥६३४॥ आकर्ण्य दधिपर्णोऽयमिति विस्तर: कथाम् । श्रुतां कुब्जेन सास्रेण, यथोक्तरसनाटिना ॥६३५।। शरीराभरणस्तोमदानेनाऽऽनन्द्य सम्मदी ।
प्रेषीत् तं ब्राह्मणं राजा, कुब्जस्तु जगृहे गृहे ॥६३६।। युग्मम् ।। १. तरौ तर खंता० ॥
20
25
D:\maha-k.pm5\2nd proof