________________
5
10
15
20
25
३०२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् राज्ञी विज्ञपयामास, मनो मत्वा नृपं प्रति । भास्वन्तं शाश्वतं भैमीभाले तिलकमीदृशम् ॥६११॥ भूपतिस्तत्पितेवास्या, भालं प्यधित पाणिना । तच्छलान्वेषिभिरिव, प्रादुर्भूतं तमोभरैः ॥६१२॥ करेऽपसारिते राज्ञा, तत् तस्यास्तिलकांशुभिः । किशोरकैरिवाग्रासि, घाससङ्घातवत् तम: ॥६१३॥ SS क्षणेऽस्मिन् कश्चिदागत्य, भाभासुरनभाः सुरः । नत्वा मध्येसमं भैमीं, प्राह बन्धुरकन्धरः ॥ ६१४॥ यस्त्वया तस्करो बद्धगलः पिङ्गलसञ्ज्ञकः । मोचयित्वा तदा देवि !, बोधयित्वा व्रतीकृतः ||६१५॥ स तापसपुरं प्राप्तो, विहरन् सह सूरिभिः । स्मशानेऽश्मनरप्रायः, कायोत्सर्गं निशि व्यधात् ॥६१६॥
चिताभवदवज्वालाजालेन कवलीकृतः । अमुक्तध्यानधैर्योऽयं, सौधर्मत्रिदिवं ययौ ॥६१७|| अहं स हंसगमने !, त्वां नमस्कर्तुमागतः । त्वत्प्रसादप्रभावर्द्धिवर्द्धितेदृशवैभवः ॥६१८॥ इत्युक्त्वा सप्त कल्याणकोटीर्वृष्ट्वा ययौ सुरः । वृत्तेनैतेन राजाऽपि, जिनभक्तोऽभवत् तदा ||६१९।। हरिमित्रोऽन्यदाऽवादीद्, भूपं भूपप्रियामपि । प्रेष्यतां दवदन्तीयं, प्रीणातु पितरौ चिरात् ॥ ६२०॥ समं चमूसमूहेन, वैदर्भीमथ पार्थिवः । प्रैषीच्चन्द्रयशोदेव्या, कृतानुगमनां स्वयम् ॥६२१॥ श्रीचन्द्रयशसं देवीं प्रणम्याथ नलप्रिया । अल्पैः प्रयाणकैरुर्वीमण्डनं प्राप कुण्डिनम् ||६२२|| ईयतुः सम्मुखौ तस्याश्चिराकरणसोत्सुकौ । पितरौ स्मितरोचिर्भिः, खचिताधरविद्रुमौ ॥६२३॥ १. °र्योऽसौ, सौधर्मत्रिदिवं गतः खंता० ॥
D:\maha-k.pm5\ 2nd proof