________________
[३०१
एकादशः सर्गः]
अन्वरोदि तथा भूपप्रियापरिजनैरपि । नददादिवराहस्य, शोभां लेभे यथा नभः ॥५९८॥ अथेत्थमाकुले राजकुले क्षुत्कुञ्चितोदरः । हरिमित्रस्ततः सत्रागारं प्रति ययौ द्विजः ॥५९९।। अकिञ्चन इवालोक्य, भैमी कल्पलतामिव । अजिह्वावर्णनीयानां, स तदाऽभूत् पदं मुदाम् ॥६००। स प्रीतस्तां प्रणम्याथ, हनूमज्जित्वरत्वरः । सत्रागारेऽस्ति भैमीति, समेत्याऽऽह नृपप्रियाम् ॥६०१।। कर्णामृतमिति श्रुत्वा, वाचं प्रीता नृपप्रिया । असिञ्चत् तं ततः स्वर्ण-रत्नाभरणवृष्टिभिः ॥६०२।। कुत्र कुत्रेति जल्पन्ती, पद्भ्यां परिजनैः सह । सत्रागारं ययौ चन्द्रयशाश्चन्द्रमुखी मुदा ॥६०३।। देवी ततोऽवदत् पुत्रि !, वञ्चिताऽस्मि स्वगोपनात् । यन्मातुरधिका मातृष्वसेति वितथीकृतम् ॥६०४॥ इत्युपालम्भसंरम्भिबाष्पा भूपालवल्लभा । निकेतनमुपेताऽसौ, पुरस्कृत्य नलप्रियाम् ॥६०५।। भूषयित्वा स्वहस्तेन, भैमी साश्रुविलोचना । अभ्यर्णमृतुपर्णस्य, निनाय विनयानताम् ॥६०६।। साऽपि चन्द्रयशोवाचा, सम्माय॑ प्रकटं व्यधात् । भास्वन्तमिव भास्वन्तमलिके तिलकाङ्करम् ॥६०७।। अथ प्रणम्य भूपालं, पितृवद् भीमनन्दनी । उपविष्टा पुरः पृष्टा, स्ववृत्तान्तं न्यवेदयत् ॥६०८।। स्ववंश्यनलवृत्तान्ते, कथ्यमानेऽथ तादृशे । लज्जमान इवामज्जन्न्यग्मुखो रविरम्बुधौ ॥६०९।। रवावस्ते समस्तेऽपि, क्षमापतिः प्राप विस्मयम् । सभान्तर्भान्तमालोकमालोक्य तिमिरापहम् ॥६१०॥
D:\maha-k.pm5\2nd proof