________________
३००]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सप्तमेऽहनि सम्बोध्य, श्रीयशोभद्रसूरिभिः । कथञ्चिद् भोजयाञ्चक्रे, देवि ! त्वदुःखदुर्मनाः ।।५८५।। उपादाय वसन्तोऽयमपरेधुरुपायनम् । कुशलः कोशलां गत्वा, प्रणनाम नलानुजम् ॥५८६।। ददौ पृथ्वीपतिः प्रीतस्तस्य तापसपत्तने । चामरालीमरालीभिः, शोभितां राजहंसताम् ॥५८७।। अथ हृष्टः प्रविष्टः स्वां, वसन्तनृपतिः पुरीम् । मौक्तिकस्वस्तिकव्याजराजत्प्रस्वेदबिन्दुकाम् ॥५८८॥ सोऽपि देवि ! प्रभावस्ते, सोऽभूद् यद् भूपतिर्वणिक् । हन्ति गर्भगृहध्वान्तं, दर्पणोऽर्ककरार्पणात् ॥५८९।। तद्भूपतिपदप्रीता, तं देवी निजगाद तत् । तदि ते हृदि कोऽप्यस्ति, विवेको मार्गदीपकः ॥५९०।। उत्सहिष्णुस्तदाऽऽदत्स्व, वत्स ! पापच्छिदे व्रतम् । तदादेशाद् व्रतीभूय, सोऽप्यगाद् गुरुभिः सह ॥५९१॥ युग्मम् ॥ प्राग्दृष्टः कुण्डनादेत्य, हरिमित्रोऽन्यदा द्विजः । वीक्ष्य क्षोणीपति क्षिप्रमगाच्चन्द्रयशोऽन्तिकम् ॥५९२।। देवी तं वीक्ष्य पप्रच्छ, कुशला-ऽकुशलादिकम् । कथामकथयत् सोऽपि, वैदर्भीत्यागतः पराम् ॥५९३।। नलस्य दमयन्त्याश्च, वार्तामार्तान्तराशयः । ज्ञातुं श्रीभीमभूमीशो, भूमीभाग न्ययुङ्क्त माम् ॥५९४॥ अरण्य-नगर-ग्राम-गिरि-कुञ्जादिकं ततः । समालोकि मया प्रापि, प्रवृत्तिरपि नैतयोः ॥५९५।। तद्वार्ता काऽपि युष्माकमाकस्मिकतयाऽप्यभूत् । तदिदं ज्ञातुमत्राहमागत: का गतिः परा ? ॥५९६।। इत्याकर्ण्य कथां चन्द्रयशसा सहसा ततः ।
आक्रन्दि मेदिनीखण्डखण्डिताखिलमण्डनम् ॥५९७|| १. `त्तनम् । चा खंता० ॥ २. °ण्डितालिकमण्ड खंता० सं० ॥
20
D:\maha-k.pm5\2nd proof