________________
10
एकादशः सर्गः]
[२९९ अथातिमुमुदे लोकैरालोक्येदं कुतूहलम् । आश्चर्यमृतुपर्णोऽपि, तदाकर्ण्य तदाऽऽययौ ॥५७२।। प्रीतोऽपि प्राह भूपस्तां, किं चौर: पुत्रि ! मोच्यते ? । व्यवस्था पृथिवीशानां, कथमित्थं विजृम्भते ? ॥५७३।। अथाऽऽह नलभूपालवल्लभा भूमिवल्लभम् । आर्हत्या न मया दृष्टश्चौरोऽपि म्रियते पितः ! ॥५७४।। अथाऽऽग्रहेण वैदाः , सुताया इव भूपतिः । अमूमुचदमुं चौरं, प्रीतिप्रोत्फुल्ललोचनम् ॥५७५॥ देवीं प्रीतः प्रणम्याथ, स जगाद मलिम्लुचः । देवि ! त्वमद्वितीयाऽपि, द्वितीया जननी मम ॥५७६॥ अथायमन्वहं देव्याः, कुलदेव्या इव क्रमौ । प्रातः प्रात: समागत्य, प्रणिपत्य प्रमोदते ॥५७७।। चौर: पृष्टोऽन्यदा देव्याः, समीचीनं न्यवेदयत् । अस्मि दासो वसन्तस्य, श्रीतापसपुरप्रभोः ॥५७८॥ पिङ्गलाख्योऽहमेतस्य, हृत्वा रत्नोत्करं प्रभोः । नश्यन् मार्गे धृतश्चौरैर्न क्षेमः स्वामिवञ्चिनाम् ॥५७९।। अथास्य नरदेवस्य, सेवकोऽहमिहाऽभवम् । सर्वतोऽप्यतिविश्रम्भादवारितगतागतः ॥५८०॥ तदा तदाऽऽप्य भूपालपुत्रीरत्नकरण्डकम् । अहार्षं त्वत्पदप्राप्तिपुण्यप्रेरितया धिया ॥५८१॥ निर्गच्छन् यामिकैदृष्ट्वा, सलोनः क्ष्माभुजोऽर्पितः । ज्ञात्वाऽहं भूभुजा चौरो, रक्षकेभ्यः समपितः ॥५८२।। ततो दृष्टिप्रपातेन, त्वदीयेन तदा मम ।
सर्वाङ्गमत्रुटन् बन्धाश्चौर्याय च मनोरथाः ॥५८३॥ 8 अपरं च तदा देवि !, निःसृतायां पुरात् त्वयि ।
वसन्तसार्थवाहोऽयं. भोजनादिकमत्यजत् ॥५८४।। १. क्येति कु° खंता० पाता० ।. २. नाहरन्त्या मया पाता० ॥ ३. °लाक्षोऽह वता० ॥
20
D:\maha-k.pm5\2nd proof