________________
5
10
151
20
25
२९८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
§§ लीलाकोककुलातङ्कहेतुवक्त्रेन्दुदीधितिः । मृगाक्षी तृषिता वाप, कामपि प्राविशत् ततः ॥ ५५९॥ राज्ञ्याश्चन्द्रयशोनाम्न्या, ऋतुपर्णमहीभुजः । पुष्पदन्तीकनिष्ठायाश्चेटीभिरियमैक्ष्यत ॥५६०॥ तच्चन्द्रयशसे ताभिस्तदा रूपवतीति सा । निवेदिता द्रुतं गत्वा, द्वितीयेन्दुतनूरिव ॥५६१॥ भागिनेयीमजान्ती, पुष्पदन्तीसुतामिमाम् । आनाय्य निजगादेति, ऋतपर्णनृपप्रिया ॥५६२॥ सहोदरेव मत्पुत्र्याश्चन्द्रमत्याः सुलोचने ! । वत्से ! कृतार्थयेदानीमृतुपर्णनृपश्रियम् ॥५६३॥ निवेदय पुनः काऽसि, विकासिगुणगौरवा ? | न हि सामान्यवामाक्ष्या, रूपमीदृक्षमीक्ष्यते ॥५६४||
तां मातृभगिनीं सुभ्रूरजानानाऽवदत् तदा । यथोक्तं धनदत्तस्य, सार्थवाहस्य पत्तिषु (?) ॥५६५॥
कदाचिद् भोजनाकाङ्क्षाप्राप्तप्रियदिदृक्षया ।
सा चन्द्रयशसः सत्रागारैश्वर्यमयाचत ॥५६६॥
ओमित्युक्तेऽथ भूपालप्रिययाऽसौ प्रियंवदा । अर्थिनां कल्पवल्लीव, सत्रागाराधिभूरभूत् ॥५६७|| देवि ! मां रक्ष रक्षेति वदन्तं बद्धमन्यदा । रक्षकैर्नीयमानं सा, पुरश्चौरं व्यलोकयत् ॥५६८॥ आरक्षकानथाऽपृच्छ्द्, देवी किममुना हृतम् ? । आचख्युस्ते ततश्चन्द्रमतीरत्नकरण्डकम् ॥५६९॥ देवी ततो दिदेशाऽथ, मुञ्चतैनं तपस्विनम् । तद्गिरा मुमुचुर्नैते, भीता विश्वम्भराभुजः ॥५७०॥ आच्छोटयदमुं देवी, तदम्भश्चुलुकैस्त्रिभिः । बन्धास्तैरत्रुटन् नागपाशास्तार्क्ष्यनखैरिव ॥५७१॥
D:\maha-k.pm5 \ 2nd proof