________________
एकादशः सर्गः]
[२९७ अहं यास्यामि सार्थो मे, दवीयान् भवति क्रमात् । तमित्युक्त्वा जवाद् यान्तं, भैमी त्वरितमन्वगात् ।।५४६।। क्व मे स्फुरति भर्तेति, व्याहरन्ती मुहुर्मुहुः । भैमी मार्गादपि, भ्रष्टा, प्रयातः सोऽप्यदृश्यताम् ॥५४७।। अथ भ्रमन्ती कान्तारे, मृगीव मृगलोचना । अपश्यत् कौणपी काञ्चिदुच्चलद्रसनाञ्चलाम् ॥५४८।। साऽप्याह भैमीमाकृष्टा, त्वं मया मायया रयात् । भोक्ष्ये त्वामधुना राहुरसनेन्दुतनूमिव ।।५४९।। इति तां विकृतां वीक्ष्य, भैमी स्वं धर्ममस्मरत् । तत्प्रभावादियं त्रस्ता, तमिस्रेव दिवाकरात् ॥५५०॥ अथैषा तृषिता देवी, भ्रमन्ती निर्जले वने । व्याकुलाऽजनि निष्पुष्पे, भ्रमरीव वनस्पतौ ॥५५१।। तदाऽऽह मम सान्निध्यं, कुरुध्वं वनदेवताः ! । यथा वनमृगीवाऽहं, दाहं न हि सहे तृषः ॥५५२॥ इन्द्रजालिकमन्त्रोक्तिस्पर्धिन्या तगिरा ततः । दुकूलं तद्भुवः कूलङ्कषाऽऽविरभवत् पुरः ॥५५३।। प्राप्तैरथ जलैर्मक्षु , म्लानाऽप्यौज्ज्वल्यमाययौ । क्षणात् क्षयं व्रजिष्यन्ती, तैलैर्दीपशिखेव सा ॥५५४।। कुतोऽपि सार्थतः प्राप्तैरथैषाऽभाषि पुरुषैः । काऽसि त्वं ? वनदेवी किं ?, तथ्यमित्याशु कथ्यताम् ॥५५५॥ 20 साऽपि प्राह वणिक्पुत्री, यान्ती पत्या समं वने । सार्थाद् भ्रष्टाऽस्मि यूयं मां, स्थाने वसति मुञ्चत ॥५५६।। अथ तैः सा समं नीत्वा, श्रेयः श्रीरिव देहिनी । अर्पिता धनदेवाय, सार्थवाहाय भीमभूः ॥५५७।। सार्थवाहोऽपि मन्वानस्तनुजामिव तामथ । आरोप्य वाहने देवी, नीत्वाऽचलपुरेऽमुचत् ।।५५८।।
15
D:\maha-k.pm5\2nd proof