________________
२९६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ प्रत्याहततमास्तं प्रत्याह स केवली । वाचं दशनविद्योतपूरनासीरभासुराम् ॥५३३।। देवरोऽस्याः कुरङ्गाक्ष्याः, कूबरोऽस्ति नलानुजः । कोशलाधिपतेस्तस्य, सुतोऽहं सिंहकेसरी ॥५३४।। सङ्गापुरीकिरीटस्य, सुतां केसरिणो मया । विवाह्य चलितेनाप्ताः, श्रीयशोभद्रसूरयः ॥५३५।। तेषां व्याख्यानमाकर्ण्य, मुधाकृतसुधारसम् । पृष्टा मयाऽतिहष्टेन, कियदायुर्ममेत्यमी ॥५३६।। अथाऽऽचख्युः शुचिज्ञानाः, श्रीयशोभद्रसूरयः । इतो दिनानि पञ्चैव, तवाऽऽयुरवशिष्यते ॥५३७।। इत्याकर्ण्य विवर्णास्यः, सोऽहं मोहाम्बुधौ ब्रुडन् । आरोपितस्तपःपोते, श्रीयशोभद्रसूरिभिः ॥५३८॥ परिपाल्य व्रतं सम्यग् , ज्ञानमुत्पादितं मया । ममैष मोक्षकालस्त्वां, व्रतयिष्यन्ति सूरयः ॥५३९॥ इत्युक्त्वा क्षीणनिशेषकर्माऽसौ सिंहकेसरी । निर्वाणं प्राप निर्वाणोत्सवं देवाश्च तेनिरे ।।५४०।। श्रीयशोभद्रसूरीणां, समीपे सपरिच्छदः । आनन्दरसनिर्मग्नो, भेजे कुलपतिव्रतम् ॥५४१।। अथ प्राते सार्थेशपुरस्कृतमहोत्सवा । अवाप तापसपुरं, वैदर्भी सह सूरिभिः ॥५४२।। प्रतिष्ठां शान्तिचैत्यस्य, सम्यक्त्वारोपणं तथा । गुरुभ्यः कारयामास, दमयन्ती ससम्मदा ॥५४३॥ इति तत्रैव वैदाः , सप्त वर्षाण्यगुस्ततः । विरञ्चिवर्षदीर्घाणि, प्राणप्रियवियोगतः ॥५४४।। अन्यदा कश्चिदागत्य, तां प्रति प्राह पूरुषः ।
नलः प्रतीक्षमाणोऽस्ति, भवती वनवर्त्मनि ॥५४५।। १. गङ्गा पातासं० ॥ २. व्याख्यां समा पाता० ।।
15
20
D:\maha-k.pm5\2nd proof