________________
[२९५
एकादशः सर्गः]
मुखेन्दुज्योत्स्नयेवास्य, धर्माख्यानगिरा ततः ।। बोधितं सार्थवाहस्य, शुद्धं कुमुदवन्मनः ॥५२०॥ दमयन्तीं गुरूकृत्य, कृत्यमेतदिति ब्रुवन् । अङ्गीचकार तीर्थेशधर्मं सार्थेशशेखरः ॥५२१।। अत्रान्तरे गिरा तस्या, जितेव गगनापगा । भूमौ पतितुमारेभे, त्रपयाऽब्दजलच्छलात् ॥५२२॥ अथ दुर्धरधारालधाराधरजलाकुलाः । भ्रेमुस्तपोधना स्तोके, पयसीव तिमिव्रजाः ॥५२३।। तानथ स्थापयित्वकस्थाने पृथ्वीपतिप्रिया । दण्डेन परितो रेखामेतेषामकृत स्वयम् ॥५२४।। तत् तापसास्तथा तस्थुस्तदाज्ञाकुट्टिमान्तरे । यथा वर्षति पर्जन्ये, लग्ना वारिच्छटाऽपि न ॥५२५।। अथ स्थितेऽम्बुदे प्रौढप्रभावा काऽप्यसाविति । तां गुरूचक्रिरे जैनधर्मकर्मणि तापसाः ॥५२६॥ तत् तापसपुरं तत्र, चारुश्रीकमचीकरत् । सार्थेश: स्वपुरभ्रान्तिगतिस्खलितखेचरम् ॥५२७।। देवानापततो वीक्ष्य, कदाचिदचलोपरि । दमयन्ती समं सर्वैरेध्यारोहधित्यकाम् ॥५२८। सिंहकेसरिणं सद्यः, प्रस्फुरत्केवलं मुनिम् । सुरैः कृतार्चनं वीक्ष्य, नत्वा देवी पुरोऽविशत् ॥५२९।। ततः प्रदक्षिणीकत्य, कश्चित केवलिनं मनिः ।। पुरः सपरिवारोऽपि, निविष्टो हृष्टमानसः ॥५३०।। अथासौ प्रथयामास, धर्मं कर्मद्रुपावकम् । केवली कलितानन्तगणकेलिनिकेतनम ||५३१|| देशनाभिः सुधापूरसनाभिभिरथ स्मितः ।
व्रतं केवलिनस्तस्मादयाचन्मुख्यतापसः ॥५३२॥ १. त्वेषा, स्थाने खंता० ॥ २. रथाऽऽरो० खंता० ॥
D:\maha-k.pm5\2nd proof