________________
२९४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्राप्यो द्वादशवर्षान्ते, वर्षान्त इव भास्करः । नलिन्या इव मे भर्ता, मत्वेत्यभ्यग्रहीच्च सा ॥५०८॥ ताम्बूलमरुणं वासः, कुसुमं विकृतीस्तथा । नादास्ये सत्यमेतानि, प्रियाण्याऽऽप्रियसङ्गमात् ॥५०९॥ निश्चित्येदं तदा देवी, चलिता मन्थरं पुरः । गिरेर्ददर्श कस्यापि, कन्दरां फलितद्रुमाम् ॥५१०॥ वर्षाकालविरामाय, रामेयं तत्र कन्दरे । एका केसरिकान्तेव, तस्थौ निर्भयमानसा ॥५११॥ भावितीर्थकृतः शान्तिनाथस्य प्रतिमामिह । निवेश्य मृन्मयी पुष्पैः, साऽर्चयद् गलितैः स्वयम् ॥५१२॥ चतुरा सा चतुर्थादि, तपःकर्म वितन्वती । चकार पारणं पाकपतितैर्भूरुहां फलैः ॥५१३।। अथापश्यन्निमां चक्रश्चक्रबन्धुप्रभामिव । बभ्राम विधुरं सार्थे, सार्थेस्तामविह्वलः ॥५१४॥ ततोऽनुपादिकीभूय, सार्थेशस्तां गतो गुहाम् । जिनार्चातत्परामेनामभिवीक्ष्य मुदं दधौ ॥५१५।। सार्थनाथः प्रणम्याथ, भैमीमग्रे निविश्य च । पप्रच्छ देवि ! देवोऽयं, कस्त्वया परिपूज्यते ? ॥५१६।। ततः प्रीतिभरस्मेरा, दमयन्ती जगाद् तम् । पूज्यतेऽसौ महाशान्तिः, शान्तिः षोडशतीर्थकृत् ॥५१७।। तथाऽसौ कथयामास, धर्ममार्हतमुज्ज्वलम् । सावधानमनोवृत्ति, मुदा सार्थपतिं प्रति ॥५१८॥ निशम्य वचनान्यस्यास्तापसास्तद्वनौकसः । तस्थुः समीपमागत्य, धर्माकर्णनकौतुकात् ॥५१९।।
15
१. र्षान्ते विशदच्छदः । खंता० ॥ २. प्रियाण्यप्रिय वता० ॥ ३. निवेश्य खंता० ॥ ४. देवदेवो खंता० ॥
D:\maha-k.pm5\2nd proof