________________
एकादश: सर्ग: ]
गर्जावाद्यैस्तडिन्नृत्तैर्धाराध्वनितगीतिभिः । मेघो दिनत्रयं यात्रामनुद्घाटेन निर्ममे ||४९५ ॥ तत्र कर्दमसम्मर्दभीममालोक्य भीमजा । अविज्ञाता जनैः शुद्धभूवासाय ततोऽचलत् ॥४९६॥ तडित्तुल्यमुखज्वालं, घोरनिर्घोषदुर्धरम् । बलाकाकुलसङ्काशकीकसावलिभूषणम् ॥४९७|| अतिवृष्ट्या तदा व्योम्नस्त्रुटित्वाऽब्दमिव च्युतम् । पथि सा कौणपं कालं करालं कञ्चिदैक्षत ॥ ४९८॥ युग्मम् ॥ अथैनां राक्षसः प्राह, भोक्ष्यसे त्वं स्थिरीभव | चातकेनेव लब्धाऽसि, मेघधारेव यच्चिरात् ॥४९९॥ अथावष्टम्भमुद्भाव्य, भैमी भीमं जगाद तम् । कुर्वन्नज्ञ ! ममावज्ञां त्वं भविष्यसि भस्मसात् ॥५००॥ पश्यन्नित्यभयां भैमीं, मुदितः कौणपोऽवदत् । तुष्टोऽस्मि तव धैर्येण, रुचितं याच्यतामिति ॥५०१॥ ततोऽवददमुं भैमी, यदि तुष्टोऽसि तद् वद । ज्वलिष्यति कियत्कालं, नलस्य विरहानलः ? ॥ ५०२॥ आख्यत् तदवधिज्ञानात्, सैष भैमि ! भविष्यति । हर्षाय द्वादशे वर्षे, पतिसङ्गः पितुर्गृहे ॥ ५०३|| मुञ्चामि भवतीं तत्र, यदि वैदर्भि ! भाषसे । अहं क्षणार्द्धमात्रेण, किमु भ्रमसि दुःखिता ? ॥ ५०४ ॥ इत्याकर्ण्य वचः कर्ण्यमस्य हृष्टमनास्ततः । बभाषे भीमभूमीशनन्दनी विशदाशया ॥ ५०५ ॥ पत्युः कथयता सङ्गं, त्वयोपकृतमेव 1 गम्यतां स्वस्ति ते नाहं यामि साकं परैर्नरैः ||५०६ ॥ सदा भवेद् भवान् धर्मगृह्य इत्युदितस्तया । स्वं रूपं दर्शयन् दिव्यं, कौणपः स तिरोदधे ॥५०७।।
D:\maha-k.pm5\ 2nd proof
[ २९३
5
10
15
20
25