________________
२९२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् निश्चित्येत्यचलद् भीमनन्दनी वटवर्त्मना । स्वपादहतपत्रालीध्वनितेभ्योऽपि बिभ्यती ॥४८२।। वृक्षेषु रत्नगर्भायाः, सपत्न्या अपि सूनुषु । मुहुः स्निग्धेषु विश्रान्ता, साऽचलद् भूपतिप्रिया ॥४८३।। तस्यास्तिलकविद्योतपिङ्गदिग्गमनक्षितेः । चलन्त्या दावकीलाया, इव हिंस्रा वनेऽत्रसन् ॥४८४।। अथावासितमग्ने सा, सार्थमेकं व्यलोकयत् । व्याप्तं शकटमण्डल्या, सवप्रमिव पत्तनम् ॥४८५।। सार्थेन सममेतेन, सुखं गहनलङ्घनम् । चिन्तयन्तीति वैदर्भी, दधौ मुदमुदित्वरीम् ॥४८६।। सार्थं यावदलञ्चक्रे, सा मरालीव पल्वलम् । तावत्तं रुरुधुश्चौराः, क्रूराः कृषिमिवेतयः ॥४८७॥ अत्र सार्थे मया त्राते, रे ! मा कुरुत विप्लवम् । सिंहीजुषि वने शाखिभङ्गाय न मतङ्गजाः ॥४८८।। भाषमाणमिदं भैमी, वातूलामिव तस्कराः । अवज्ञाय तदा पेतुः, सार्थे भृङ्गा इवाम्बुजे ॥४८९।। पञ्चषानथ हुङ्कारान् , सा चकार पतिव्रता । नेशुश्चौरास्तमःपूरास्तै स्करकरैरिव ॥४९०॥ शीलावधिरधिष्ठातृदेवतेव तदैव सा । अर्चिता सार्थवाहेन, जगृहे च गृहे जवात् ॥४९१।। मातेति मन्यमानस्य, सार्थवाहस्य पृच्छतः । भिन्दन्ती हृदयं दुःखैस्तद् द्यूतादि जगाद सा ॥४९२॥ अथासौ सार्थवाहेन, विवेकाद्भुतभक्तिना । अस्थाप्यत गृहे भैमी, नलपत्नीति यत्नतः ॥४९३।। घनागमेऽन्यदोद्दामैापि व्योम घनाघनैः ।
तुच्छीभूतार्णवोन्मीलदौर्वधूमभरैरिव ॥४९४।। १. सर्वे भृ° खंता० ॥ २. °र नृपात्मजा । खंता० ॥
15
20
D:\maha-k.pm5\2nd proof