________________
[२९१
10
एकादशः सर्गः]
अवाञ्छन् श्वसुरावासवासं मानधनः सुधीः । ममाऽऽग्रहं च तं वीक्ष्य, साधु तत्याज मामपि ॥४६९।। प्राणान् मुञ्चन्ति नो मानं, धीरास्तन्मां मुमोच सः । मानच्छिदाग्रहग्रस्तां, मानी प्राणसमामपि ॥४७०॥ हा कान्त ! कुलकोटीर !, हा विवेकनिकेतन ! । एकोऽपि नापराधोऽयं, दास्या मे किमसह्यत ? ॥४७१।। त्वदादेशस्य किं दूरे, कदाचिदभवं विभो ! ? । यदेवं देव ! मुक्ताऽहं, न निषिद्धा कदाग्रहात् ॥४७२॥ ज्ञातं वा नान्यथा चक्रे, मद्वचोऽपि क्वचिद् भवान् । ततस्त्यक्ताऽस्मि नोत्क्लृप्ता वागमाननमानना ॥४७३।। हा दैव ! दुर्मतिर्दूरं, निर्ममे किं ममेदृशी ? । तदा कदाग्रहेऽमुष्मिन् , नलस्येव दुरोदरे ॥४७४।। ध्यायं ध्यायमिदं मन्दभाग्यम्मन्या वियोगिनी । प्राणेश ! पाहि पाहीति, वदन्ती मूच्छिताऽपतत् ॥४७५॥ अथ क्षणेन मूर्छान्ते, बाढं विरहविह्वला । मा स्म गा नाथ ! नाथेति, तारं दीना रुदोद सा ॥४७६।। तदा चक्रन्द सा भर्तृनामग्राहं मुहस्तथा । हृदयानि विदीर्णानि, शैलानामप्यहो ! यथा ॥४७७।। अथास्या नलवश्यायाः, कृपयोल्लास्य चीवरम् । अनलस्य वयस्योऽपि, तां वर्णालीमदीदृशत् ॥४७८॥ स्वपाणिना स्वरक्तेन, प्रियेण लिखितां लिपिम् । दृष्ट्वा नलमिवाऽऽधत्त, हृदयेऽन्तर्बहिश्च सा ॥४७९।। अथ प्रमुदिता देवी, व्यचिन्तयदिदं हृदि । अहो ! अद्यापि विद्येऽहं, हृदये हृदयेशितुः ॥४८०।। यदादिदेश मे वर्त्म, स्वरक्तलिखिताक्षरैः ।
गमिष्यामि पितुर्गेहमेतैरेव सहायकैः ॥४८१।। १. वता० विनाऽन्यत्र-°नतान° खंता० ॥
20
25
D:\maha-k.pm5\2nd proof