________________
5
10
15
20
25
२९० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् स्वादितान्यस्य पीयूषजित्वराणि फलान्यथ । आम्रो व्यालेन भग्नोऽथ भ्रष्टाऽहमपि भूतले ॥४५६|| स्वप्नान्ते निद्रया मुक्ता, प्रफुल्लनयनाम्बुजा । प्रातः प्रियमपश्यन्ती, व्याकुलैवमचिन्तयत् ॥४५७॥ जहार वनदेवी वा, खेचरी वा प्रियं मम ।
स ययौ जलमानेतुं प्रातः कृत्याय वा स्वयम् ॥४५८॥
अथवा नर्मणा तस्थौ, वल्लीजालान्तरे क्वचित् । तत् पश्यामि जलस्थान-वल्ली - द्रुमतलान्यहम् ॥४५९॥ इत्युत्थाय प्रियं द्रष्टुं यत्र यत्र जगाम सा । तत्र तत्राप्यपश्यन्ती, वैलक्ष्येणातिबाधिता ||४६०॥ सा चरन्ती लतालीषु, मृगान् वीक्ष्य रवोत्थितान् । मुमुदे च प्रियभ्रान्त्या, मुहुः खिन्ना च निश्चयात् ॥४६१॥ भ्रामं भ्राममथ श्रान्ता, नलकान्ता समाकुला । पाणिपल्लवमुत्क्षिप्य, पूत्कुर्वन्तीदमभ्यधात् ॥४६२॥ एह्येहि दर्शनं देहि, परिरम्भं विधेहि मे । नर्मापि शर्मणे नातिक्रियमाणं भवेत् प्रिये ॥ ४६३॥ इति प्रतिरवं श्रुत्वा, निजोक्तेरेव हर्षिता । आकारयति मां भर्त्तेत्यागाद् गिरिगुहासु सा ||४६४॥ तत्राप्यसावपश्यन्ती, वैदर्भी प्राणवल्लभम् । स्वप्नं सचेतना रात्रिप्रान्तदृष्टं व्यचारयत् ॥४६५॥ रसालोऽयं नलः पुष्प-फलानि नृपवैभवम् । तत्र देवीपदारूढा, जाताऽहं फलभोगभाग् ॥४६६॥ द्विपोऽस्य कूबरो भङ्क्ता, भ्रंशो मे विरहस्त्वयम् । स्वप्नार्थेनामुना तन्मे, सुलभो नैव वल्लभः ||४६७|| धिग् ! मां दिग्मण्डनयशा, यन्मुमोच नलो नृपः । तं मानिनं पितुर्वेश्म, नेतुं धिग् ! मे कदाग्रहम् ॥४६८॥ १. 'द्रयोन्मु° खंता० ॥
D:\maha-k.pm5\ 2nd proof
"