________________
[२८९
10
एकादशः सर्गः]
कृत्वा नलस्य पर्यन्तकृत्यानि कृतिनां वरः । अधारयच्चिरं चित्ते, दधिपर्णनृपः शुचम् ॥४४३।। रसवत्या नलः सूर्यपाकया नृपमन्यदा । अप्रीणयद् यथायुक्तरसप्रसरपुष्टया ॥४४४।। अथ वासांसि रत्नानि, तस्मै भूरीणि भूपतिः । ग्रामपञ्चशती टङ्कलक्षं च प्रीतिमान् ददौ ॥४४५।। राज्यं ययौ नलस्यापि, ग्रामै म करोमि किम् ? । तं कुब्जमिति जल्पन्तं, प्रीतः प्राह पुनर्नृपः ॥४४६॥ प्रीतोऽस्मि तव सत्त्वेन, सत्त्वाधिकशिरोमणे ! । याच्यतां रुचितं किञ्चिदित्युक्तेऽभिदधे नलः ॥४४७।। मृगव्य-मदिरा-छूतव्यसनानि स्वसीमनि । यावज्जीवं निषेध्यानि, श्रुत्वेदं तद् व्यधान्नृपः ॥४४८॥ अथ वर्षगणेऽतीते, कश्चिदेत्य द्विजः सभाम् । वेत्रिणाऽऽवेदितः स्वस्तिपूर्वकं नृपमब्रवीत् ॥४४९।। श्रीभीमेन समायातदवदन्तीगिरा चिरात् । नलप्रवृत्तिमन्वेष्टुं , प्रेषितोऽहं तवान्तिके ॥४५०॥ भैमी निशम्य जीवन्ती, नलोऽपि क्वापि जीवति । तगिरेति विनिश्चित्य, प्रीतः प्रोवाच पार्थिवः ॥४५१।। नलस्य सपकारोऽयं कब्जो राज्येऽस्ति मे गणी। एतगिरा मयाऽश्रावि, विपन्नः सप्रियो नलः ॥४५२॥ तवैतया पुनर्वाचा, प्रीतोऽस्मि द्विज ! तद्वद । कथं तयोवियोगोऽभूद् ?, वैदर्भी कथमागता ? ॥४५३।। अथ द्विजोऽवदद् देव !, प्रविवेश नलो वनम् । कान्तामेकाकिनी सुप्तां, त्यक्त्वाऽन्येधुर्ययौ क्वचित् ।।४५४॥ तद् विराम विभावर्या, भैमी स्वप्नमलोकयत् ।
सपुष्प-फलमारूढा, सहकारमहं पुरः ॥४५५।। १. दधौ न खंता० पाता० ॥
20
25
D:\maha-k.pm5\2nd proof