SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २८८] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् पुरस्य कृपया कोऽपि, किमसावाययौ सुरः ? । स्वयम्भूरथवा पौरपुण्यपूरैरथाभवत् ? ॥४३१॥ अभ्रमूवल्लभस्पद्धिद्धिर्चिपराक्रमः । ययौ भुवनभीमोऽपि, गजोऽयं यस्य वश्यताम् ॥४३२॥ इत्थं परस्परं पौरैः, प्रीतिगौरैः पदे पदे । कुब्जोऽपि स्तूयमानश्च, वीक्ष्यमाणश्च रेजिवान् ॥४३३॥ विशेषकम् ॥ प्रीतात्मा स्वयमारुह्य, गोपुरं पुरनायकः । तस्याधो गच्छतः कण्ठे, दाम रत्नमयं न्यधात् ॥४३४॥ अथोपनीय शालायां, गजमाकलयन् नलः । लीलाविलोलशुण्डाग्रग्राहिताहारपिण्डकम् ॥४३५॥ प्रीतः प्रदाय रत्नानि, वसना-ऽऽभरणानि च । अथ मित्रमिवोर्वीशः, पुरः कुब्जं न्यवीविशत् ॥४३६।। कुतस्तव कलाभ्यास: ?, कस्त्वं ? वससि कुत्र च ? । राज्ञेति पृष्टो हृष्टेन, नलभूपतिरभ्यधात् ॥४३७।। सूपकारो नलस्याहं, प्रियो हण्डिकसञ्जकः । नलादाप्तकलाभ्यासः, कोशलायां वसामि च ॥४३८॥ अज्ञासीद् यन्नलः सर्वं, तं कलौघं मयि न्यधात् । अन्यच्चाशिक्षयत् सूर्यपाकां रसवतीमपि ॥४३९॥ बन्धुना हारितैश्वर्यः, कूबरेणाधमेन सः । नलः स्वामी वने गच्छन् , विपन्नः प्रियया सह ॥४४०।। ततो राजन् ! परित्यज्य, कूबरं कुलपांसनम् । आश्रितोऽहं कलावन्तं, भवन्तं नलवन्मुदा ॥४४१॥ इति श्रुत्वा नलक्ष्मापवार्तामारिवोऽरुदत् । दधिपर्णोऽशुकच्छन्नवदनः सपरिच्छदः ॥४४२।। १. रसावभूत् ? खंता० पाता० ॥ २. पाता० नास्ति ॥ ३. गिरोर्वी वता० खंता० ॥ ४. लस्वा खंता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy