SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 10 एकादशः सर्गः] [२८७ कञ्चिदुच्चालितक्षोणिखण्डं चण्डांहिपाततः । व्यालं व्यालोकयामास, नलः प्रबलविक्रमम् ॥४१८।। सप्तभिः कुलकम् ।। ऊर्वीकृत्य भुजामुर्वीभुजा वाहयुजा ततः । व्याहृतं दधिपर्णेन, क्षणव्याकुलचेतसा ॥४१९।। यः कोऽपि कोपिनममुं , करिणं कुरुते वशे । लक्ष्मी तनोमि तद्गेहोत्सङ्गरफैकनर्तकीम् ॥४२०।। अथाऽऽकर्येति कुतुकी, सत्वरं प्राचलन्नलः । कालप्रायमपि व्यालं, मन्यमानः शृगालवत् ॥४२१।। भो कुब्ज ! कुब्ज ! कीनाशमुखे मा विश मा विश । इत्युक्तोऽपि जनै/रः, केसरीव ययौ गजम् ॥४२२।। रे रे शुण्डाल ! मा बाल-विप्र-धेनु-वधूर्वधीः । एह्येहि मददुर्दान्त !, दान्ततां दर्शयामि ते ॥४२३।। वल्गन्तमिति वाचालं, कोपादनुचचाल तम् । करी कराग्रविक्षेपप्राप्ता-ऽप्राप्तशिरोरुहम ॥४२४।। पतन्नुद्यन् मिलन्नस्य, निघ्नन् घातं च वञ्चयन् । अष्ठाङ्गलिसम्मःरर्दयन् पुष्करं छलात् ।।४२५।। भ्रान्त्वा दक्षिणपक्षण, चक्रवद् भ्रमयन् मुहुः । चतुर्णामपि पादानां, प्रविश्याधोऽपि नि:सरन् ।।४२६।। निमेषार्धात् पुरः पश्चात् , पक्षयोश्च स्फुरन् नलः । खेदयामासिवानेकोऽप्यनेकवदनेकपम् ॥४२७।। विशेषकम् ॥ सोऽथ खिन्नमपि क्रोधाद्धावन्तं द्विपमुन्मदम् । वशीकर्तुं पटी मूर्तामिव प्रज्ञां पुरोऽक्षिपत् ॥४२८॥ रूपबुद्ध्याऽथ तां हन्तुं , विनमन्तं मतङ्गजम् । दन्तन्यस्तपदः शैलं, केशरीवारुरोह सः ॥४२९॥ कलापकान्तरन्यस्तपदस्तदनु दन्तिनम् । सृणिमादाय, रोमाञ्चकवची तमचीचलत् ॥४३०॥ १. नैर्वीरः खंता० ॥ २. अत्रान्तरे विशेषकम् इति पाता० ।। 20 25 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy