________________
२८६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ कोऽप्यग्रतो भूत्वा, प्रीतः प्राह नरो नृपम् । वत्स ! जानीह मां देवीभूतं पितरमात्मनः ॥४०५।। भास्वन्तं दुर्दिनेऽपि त्वां, तेजसा मा स्म शत्रवः । जानन्तु हन्त ! तेन त्वं, मया नीतोऽसि कुब्जताम् ॥४०६।। समुद्गकं गृहाणेदं, यदा कार्यं भवेत् तव । परिधेयं तदाऽमुष्माद् , देवदूष्यांशुकद्वयम् ॥४०७।। इत्थं समर्पयन्नेव, देवः प्राह पुनः सुतम् । क्व भवन्तं विमुञ्चामि ?, क्रमचारो हि दुःखदः ॥४०८।। सुंसमारपुरे मुञ्च, नलेनेत्थमथोदिते ।। देवः क्वचिद् ययौ स्वं तु , तत्रापश्यदसौ पुरे ॥४०९।। अकस्माद् विस्मयस्मेरस्तत् पश्यन् पुरतः पुरम् । यावच्चलति सोऽश्रौषीत् , तावत् कोलाहलं पुरः ॥४१०।। ततः किमेतदित्यन्तश्चिन्तयत्याकुले नले । नश्यतां नश्यतामित्थमूचुरुच्चैस्तुरङ्गिणः ॥४११॥ स्पर्द्धयेव प्रधावन्ती, घ्नन्तं छायामपि स्वकाम् । मुहुःकृताकृतस्पर्श, वायुनाऽपि भयादिव ॥४१२॥ मधुव्रतैरतितरां, धावद्भिर्मदलिप्सया । अनासादितकर्णान्तमतित्वरितचारतः ॥४१३।। उदस्तशुण्डमुड्डीनानपि खण्डयितुं खगान् । क्षयोत्क्षिप्तमहादण्डमिव दण्डधरं क्रुधा ॥४१४।। धर्मपुत्रानिवाब्दस्य, स्वशब्दस्पद्धितध्वनः । भिन्दन्तं दन्तघातेन, पादपौघान् पदे पदे ॥४१५।। मूर्धातिधूननैर्गण्डप्रोड्डीनालिकुलच्छलात् । क्षिपन्तं खण्डशः कृत्वा, व्योमाङ्गणमपि क्षणात् ॥४१६।। अस्यन्तं कुम्भसिन्दूररेणूनुद्धतधूननैः ।
मूर्धाध्वनिःसृतध्मातक्रोधानलकणानिव ॥४१७।। १. स्य, शब्दस्य स्प° खंता० ॥ २. रेणुमुद्ध खंता० ।।
15
20
25
D:\maha-k.pm5\2nd proof