________________
एकादशः सर्गः ]
रक्षामि शयितां यावद्, यामिनीं स्वामिनीमिति । नलः पश्यन् प्रियां वल्लीमण्डलान्तरितः स्थितः ॥३९२॥ विभातायां विभावर्यां, देव्या जागरणक्षणे । मृदु-द्रुतपदापातमचलन्नलभूपतिः || ३९३ || अथो हृदयसन्तापं, स्फुटीभूतमिवाऽऽत्मनः । नलो व्यलोकयद् दावानलं ज्वलितमग्रतः ॥ ३९४॥ रविवंशनरोत्तंस !, निषधक्ष्मापनन्दन ! | महाबल ! नल ! त्राणदक्ष ! संरक्ष मां दवा ||३९५|| इत्याकर्ण्य गिरं दावानलमध्योत्थितां नलः । अचिन्त्यदिदं वेत्ति, कोऽत्र मां निर्जने वने ? ||३९६ ॥ अथोवाच नृप कस्त्वं, मां परिज्ञाय भाषसे ? | इत्युक्ते पुनरुद्धूता, भारती दावपावकात् ॥३९७॥ भुजगोऽहमदग्धायां, वल्लौ सङ्कुचितः स्थितः । निर्गन्तुं भूमितापेन न शक्नोमि दवानलात् ॥३९८॥ उपकारं करिष्यामि, महान्तं ते महीपते ! | मूर्तादिव यमक्रोधादग्नेस्तत् कर्ष कर्ष माम् ॥ ३९९॥ इत्याकर्ण्य विलोक्याथ, पटप्रान्तं नृपोऽक्षिपत् । सर्पे तदग्रमारूढे, क्षणेन पुनराक्षिपत् ॥४००॥ अथ निःसृत एवास्य, भुजाग्रं भुजगोऽदशत् । तदात्वमेव कुब्जत्वमाससाद ततो नृपः || ४०१ ॥ दृष्ट्वाऽथ भूपः स्वं रूपं दध्यौ दृष्टं मया रयात् । धिग् ! देवीत्यागपापद्रुफलोत्पत्तिप्रसूनकम् ॥४०२॥ अधुना वनमायान्त्या, देव्या यादृक् कृतो मया । उपकारोऽमुना तादृग्, दवाकृष्टेन मे कृतः ॥४०३॥ सविलक्षं हसन्नाह, सरीसृपमथो नृपः । उपकारस्त्वयाऽकारि, स्वस्ति ते गम्यतामिति ॥ ४०४||
१. 'तस्थि' खंता० पाता० ॥ २. 'यान्त्यां देव्यां या पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ २८५
5
10
15
20
25