________________
२८४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् धाराधिरूढविज्ञाने !, सद्वंशे ! स्निग्धतानिधे ! । निष्कृपस्य कुकार्येऽपि, कृपाणि ! कुरु मे कृपाम् ॥३७९।। इत्युक्त्वा क्षणमुहृत्य, धैर्यं वैक्लव्यतो नलः । चकर्त्त चीवरं प्रेमबन्धनेन समं तदा ॥३८०।। अथ देव्या मुखाम्भोजमालोकयितुमुन्मनाः । ममार्ज पाणिना भालमुन्मीलत्तिलकप्रभम् ।।३८१।। अथाऽध्यायन्नलो मुग्धामुखस्याऽहो ! महो महत् । येन जागति शेते वा, नेति निश्चिनुते मतिः ॥३८२।। उवाच देवि ! त्वद्वक्त्रालोके भाग्यं न मे दृशोः । न च त्वत्परिचर्यायां, योग्यताऽपि हतात्मनः ॥३८३।। प्रियाननोपरिन्यस्तदृष्टिरेवं वदन् नलः । दधौ हस्तेन बाष्पाम्भस्तत्प्रबोधभयान्मुहुः ॥३८४।। अकृपः सकृपे ! गोत्रकलङ्को गोत्रदीपके ! । दुराचारः सदाचारे !, कुर्वे नतिमपश्चिमाम् ॥३८५।। देवि ! त्वच्चरितेनेन्दुरकलङ्कः किलाभवत् । अन्ववायगुरुः किन्तु , मद्वृत्तेन कलङ्कितः ॥३८६।। अहो ! अभीरुर्बलवान् , यद्भीरुमबलां नलः । मुक्त्वा वनान्तरे याति, स्वयं वसति पत्तने ॥३८७।। ब्रवन्नित्ति क्षतस्वाक्षरत्क्षतजलेखया । अक्षराण्यलिखद् दीनो, देव्याश्चेलाञ्चले नलः ॥३८८।। विदर्भेषु वटेनाध्वा, वामे ! वामेन गच्छति । दक्षिणे ! दक्षिणेनैतेः, कोशलायां तु किंशुकैः ॥३८९।। यत्र ते प्रतिभात्येव, देवि ! तत्र स्वयं वज्रः । आत्मानं दर्शयिष्येऽहमुत्तमे ! न तवाधमः ॥३९०॥ लिखित्वेति नलो मन्दपदपातमथाचलत् ।
पिबन् मुखाम्बुजं देव्या, दृग्भ्यां वलितकन्धरः ॥३९१॥ १. निस्त्रप खंता० ॥
20
D:\maha-k.pm5\2nd proof