________________
एकादशः सर्गः ]
उत्तरीयं धराधीशो, नीत्वा पल्यङ्कतां ततः । भुजोपधान एवाऽऽप, स्वापं वल्लभया सह ॥ ३६७॥ निशीथे पृथिवीनाथो, निद्रास्पृशि मृगीदृशि । अचिन्तयच्चिरं चित्ते, नियत्या निहतोद्यमः || ३६८ || आकारयिष्यति प्रातः, प्रिया निजपितुर्गृहे ।
श्रयन्ते श्वशुरं नीचाः, क्व यामि ? करवाणि किम् ? ॥ ३६९ ॥ श्वः करिष्यामि यद् देवि ! वक्तासीति मयोदितम् । तद्दाक्षिण्यमयं वाक्यं, बाढं दुःखाकरोति माम् ||३७०|| त्यजामि यद्यमूं सुप्तां, तत् प्रसर्पति दुर्यशः । अन्यथा मामियं प्रातः, प्रापयत्येव कुण्डिनम् ॥३७१॥ स्वशीलरक्षितात्मानं, वरं मुञ्चामि तामिमाम् । न कुण्डिनगतो दैन्यं, मन्दो मन्दाक्षमुद्वहे ||३७२|| निश्चित्येति नलः कान्ताकपोलतलतो भुजम् । मन्दं चकर्ष निर्यातुमवाञ्छन्तमिव प्रियात् ॥ ३७३ ॥ उत्तरीयस्य पर्यङ्ककृतस्यार्द्धग्रहेच्छया । आचकर्ष ततः शस्त्रीं, निस्त्रिंशत्वेन सत्रपः ||३७४|| बाष्पोर्मिरुद्धदृग्वर्त्मा, शुचा गलितचेतनः ।
वसनाय करं व्योम्नि, न्ययुङ्क्त व्याकुलो नलः ||३७५|| तस्य ध्यात्वा क्षणेनाक्ष्णी, परिमृज्यैकपाणिना । चेलं चिकर्तिषोः कम्पान्निपपात क्षुरी करात् ॥३७६॥ पुनः कृपाणिकां पाणौ, गृहीत्वा दुर्मनायितः । उवाच नैषधो दुःखमग्नमन्दतरस्वरम् ॥३७७|| दमयन्त्या वनत्यागे, सपत्न्या मत्करग्रहात् । अपि निस्त्रिंशपुत्रीयं, पपात भुवि धिग् ! नलम् ॥३७८||
[ २८३
१. °र्गृहम् खंता० ॥ २ °ति प्रतिश्रुतम् खंता० ॥ ३. 'तामेनां वरं मुञ्चामि भामिनीम् खंता० ।। ४. परिमार्ज्येक वता० खंता० ॥
D:\maha-k.pm5\ 2nd proof
5
10
15
20