________________
२८२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सिक्तो घण्टापथस्तस्य, प्रस्थितस्य वनं प्रति । पौरैर्नेबाम्बुजोपान्तवान्तैः सलिलबिन्दुभिः ॥३५५।। हा ! हा ! हताः स्मो दैवेनेत्यार्तेः प्रतिगृहं स्वनैः । शब्दाद्वैतं तदा जज्ञे, रोदःकन्दरमन्दिरे ॥३५६॥ पुरीपरिसरोपान्ते, तस्थिवानथ पार्थिवः । अमात्य-पौरप्रभृतीन् , बोधयित्वा न्यवर्तयत् ॥३५७।। राज्यत्यागे निषिद्धोऽपि, नैषधिस्तैरनेकशः । सत्यमेव पुरस्कृत्य, प्रतस्थे सुस्थमानसः ॥३५८॥ प्रपद्य जननीत्वेन, कूबरेण निवारिता । नलेनानुमताऽप्यस्थान्नैव सा भीमनन्दनी ॥३५९॥ तद् वनं भवनं वृक्षाः, कल्पवृक्षास्त एव मे । चरणैरार्यपुत्रस्य, पावित्र्यं यत्र सूत्र्यते ॥३६०।। दवदन्ती तदित्युक्त्वा, विसृज्य च परिच्छदम् । चचालोज्ज्वलवक्वेन्दुर्नलवानुवर्तिनी ॥३६१॥ असिस्वदत् फलश्रेणी, पयःपूरमपीयत । व्यशिश्रमन्मुहुर्मार्गे, भैमी भूमीशपुङ्गवः ॥३६२।। अथ कामप्यरण्यानी, निरन्तरतरद्रुमाम् । दुर्ग्रहामिव दुर्गोर्वी, तमसामासदन्नृपः ॥३६३॥ तत्राऽऽह वल्लभं भैमी, लगित्वा पादपद्मयोः । अलङ्कुरु कुलोत्तंस !, पद्भ्यां तातपुरीमिति ॥३६४।। यद् वदिष्यसि देवि ! त्वं, तत् कार्यं ह्य(श्व)स्तनेऽहनि । कृतकृत्येव भैमीति, पिप्रिये प्रेयसो गिरा ॥३६५॥ अथास्तमगमद् भानुर्नलस्येव महोदयः ।
दुष्कीर्त्या कूबरस्येव, व्यानशे तमसा जगत् ॥३६६।। १. °न्दिरम् खंता० ॥ २. न्नैवासी भी खंता० ॥ ३. युग्मम् पाता० ॥ ४. तरुद्रुमाम् खंता० ॥
D:\maha-k.pm5\2nd proof