________________
३३४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथेत्याकर्ण्य देवेन, विज्ञप्तस्तेन वासवः । आदिश्य धनदं तत्र, कारयामास तां पुरीम् ॥२१६।। नवयोजनविस्तारां, दैर्घ्य द्वादशयोजनीम् । द्वादशा-ऽष्टादशकरपृथुलोत्तुङ्गवप्रिकाम् ॥२१७॥ रत्नोत्करस्फुरत्तेज:पुञ्जपिञ्जरिताम्बराम् ।
चकार जिनचैत्यानां, श्रेणिं तत्र धनाधिपः ॥२१८।। प्रासादौ सर्वतोभद्र-पृथिवीजयसञकौ । पुरान्तर्विदधे श्रीदः, श्रीदामोदर-रामयोः ॥२१९।। तत्पुरश्च सुधर्मायाः, सधर्माणं सभां व्यधात् । चैत्यं चाष्टोत्तरशतश्रीजैनप्रतिमान्वितम् ॥२२०।। समुद्रविजयादीनां, सर्वेषामपि भूभुजाम् । प्रासादयोस्तयोः पार्वे, प्रासादाः कोटिशः कृताः ॥२२१।। तत् पीते वाससी मुक्तामालां मुकुट-कौस्तुभौ । गरुडावं रथं शार्ङ्ग, धन्व कौमोदकी गदाम् ॥२२२।। अक्षय्यबाणौ शरधी, नन्दकासिं च विष्णवे । ददौ श्रीदोऽथ रामाय, वनमालां हलं धनुः ॥२२३।। तालध्वजं रथं तूणी, मुशलं नीलवाससी । अर्हाणि च दशार्हेभ्यो, रत्नान्याभरणानि च ।।२२४॥ मत्वाऽथ यदवो युद्धे, बलवन्तं बलानुजम् । अपरोदधिपर्यन्तेऽभ्यषिञ्चन् हर्षनिर्भराः ॥२२५।। रथावारुह्य सिद्धार्थ-दारुकाभिधसारथी । प्रविष्टावुत्सवोद्दामां, राम-दामोदरौ पुरीम् ॥२२६।।
15
20
१. जनाम् खंता० पाता० ॥ २. वप्रकाम् पाता० ॥ ३. एतदन्तरं पाता० युग्मम् इति वर्तते ॥
D:\maha-k.pm5\2nd proof