________________
10
एकादशः सर्गः]
[२७९ अथो विशददृक्पातद्युतिजातविलेपने । मालामयोजयद् बाला, नलस्य गलकन्दले ॥३१६।। बद्धक्रुधोऽपि भूपास्ते, तदा न प्राभवन् नले । दवदन्तीसतीत्वेन, स्तम्भिता इव वह्नयः ॥३१७।। प्रमोदमेदुरामेनां, मेदिनीनाथनन्दिनीम् । नलस्तदनलः स्वाहामिव व्यवहदुन्महाः ॥३१८।। ततश्चकार सत्कारं, जामातुर्भीमभूपतिः । हर्षेण हास्तिका-ऽश्वीय-वासना-ऽऽभरणादिभिः ॥३१९।। अन्यानपि धराधीशानशनैर्वसनैरपि । सत्कृत्य कृत्यवित् प्रैषीदसौ निजनिजं पुरम् ॥३२०।। अथ नक्तं पुरीलोकविलोकनसमुत्सुकः । व्यदधान्निषधक्ष्मापः, प्रयाणं प्रति कोशलाम् ॥३२१।। कियन्तमप्यथाध्वानमनुव्रज्य निवत्य॑ता । जगदे गद्गदं तेन, नन्दनी मेदिनीभुजा ॥३२२॥ चरित्रेण पवित्राऽसि, पुत्रि ! किं तव शिक्षया ? । तथापि जनकस्नेहमोहेन मुखरोऽस्म्यहम् ॥३२३।। पतिमाराधयेः शुद्धैर्वाङ्मन:-कर्मभिस्त्रिभिः । स एव देवता स्त्रीणां, चित्तं वित्तं गुरुः सुहृत् ॥३२४।। किञ्च वैभवमभ्येत्य. सकालष्यान्तराशया । पातयन्ती जवादेव, स्वयं सविधवर्धितान् ॥३२५।। स्वच्छतामुपगच्छन्ती, पुनः प्रक्षीणवैभवा । सत्यतां पुत्रि ! मा नैषीः, स्त्रीनदीवदिदं वचः ॥३२६।। युग्मम् ॥ पतिमेवानुगच्छेश्च, वत्से ! स्वच्छेन चेतसा । क्षिप्ताऽपि दूरतः प्रातश्छायेव निजपादपम् ॥३२७।। शिक्षयित्वा सुतामित्थमथ भीमो न्यवर्तत ।
तद्विश्लेषोत्थसन्तापमश्रुभिः शमयन्निव ॥३२८॥ १. °लान् खंता० ॥
20
25
D:\maha-k.pm5\2nd proof