________________
२७८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मण्डपं, प्रविवेशाथ, भूरिभूपतिसम्भृतम् । दवदन्ती मरालीव, सरः कमलसङ्कलम् ॥३०४॥ षड्भिः कुलकम् ॥ मूर्ती तस्या मणिस्तम्भप्रतिबिम्बेष्वपि क्षणात् ।। का नाम दवदन्तीति, राज्ञा तरलिता दृशः ॥३०५॥ दवदन्ती प्रति ततो, दर्शयन्ती धराधिपान् । व्याजहार प्रतीहारी, हारीकृतरदद्युतिः ॥३०६।। भानुर्देहप्रभापास्तसम्पच्चम्पाधिभूरयम् । यदङ्गघटनोच्छिष्टैर्द्रव्यैरघटि मन्मथः ॥३०७।। रोहितकाख्यदेशाब्धिचन्द्रोऽयं चन्द्रशेखरः । चित्रस्थेऽपि स्मरे दृष्टे, द्विषस्त्रस्यन्ति यभ्रमात् ॥३०८॥ क्ष्मापतिः शशलक्ष्माऽयं, प्रकाशः काशिनायकः । उन्मिषन्ति द्विषद्भालैर्यस्य क्रमनखत्विषः ॥३०९।। नृदेवो यज्ञदेवोऽयं, चङ्गोऽनङ्गोपमप्रभः । दध्युर्बन्देऽपि साफल्यं, यं विलोक्य रिपुस्त्रियः ॥३१०।। युद्धद्धिष्णुतृष्णोऽयं कृष्णो हूणमहीपतिः । यत्र न्यधाद्धराभारं, श्रीपतिः श्रीसुतभ्रमात् ॥३११।। सुसमारपुरेशोऽयं, दधिपर्णः कलार्णवः । भाति नित्योदय: किन्तु , पश्य यस्य यशःशशी ॥३१२।। निषधोऽयं द्विषद्भेदकुशलः कोशलेश्वरः । जिग्ये येनातिकामेन, तेजोभिः शाम्भवः शिखी ॥३१३।। नलोऽयं नैषधिर्यस्य, स्फुरन्ति न पुरः स्थिताः । कामन्यक्कारिलावण्यधन्यम्मन्याः क्षमाभुजः ॥३१४।। विलक्य भूभृतो भूरीन् , नले लावण्यवारिधौ । दमयन्त्यास्ततो दृष्टिस्तटिनीव न्यलीयत ॥३१५॥
15
१. °म्बेषु च क्ष° खंता० ॥ २. °ष्णोऽसौ, कृ खंता० पाता० ॥ ३. सुंसुमार' खंता० पाता० ॥ ४. °ष्टिर्नलिनीव न्य° खंता० ॥
D:\maha-k.pm5\2nd proof