________________
[२७७
एकादशः सर्गः]
तुल्यं तदीयरूपस्य, न पश्यति वरं भुवि । भूपस्तेन समारेभे, स्वयंवरमहोत्सवम् ॥२९१।। आययुर्भूरयो भूपा, भीमाभ्यर्थनया ततः । स्वामिन् ! समं कुमाराभ्यामभ्येतव्यं त्वयाऽपि तत् ॥२९२॥ तदुक्तं सर्वमुर्वीशस्तथेति प्रतिपद्य सः । सत्कृत्य कृत्यविद् दूतं, प्रचचालाऽचलाधवः ॥२९३।। अथाऽऽससाद सूनुभ्यां, साकं कोशलनायकः । सैन्येभकृतमार्गदुखण्डनः कुण्डिनं पुरम् ॥२९४।। भीमः सम्मुखमागत्य, सत्कृत्य निषधाधिपम् । मुदितः कुण्डिनोपान्ततरुखण्डे न्यवासयत् ॥२९५।। आकारयन्तमत्युच्चध्वजालिदलैश्चलैः । अथाऽऽजग्मुर्महीनाथाः, स्वयंवरणमण्डपम् ॥२९६।। न्यविशन्नथ मञ्चेषु , पञ्चेषुद्युतिजित्वराः । स्वस्यान्यस्य च पश्यन्तो, रूपं भूपा मुहुर्मुहुः ॥२९७।। एकस्मिन् निषधो मञ्चे, सुताभ्यां सह तस्थिवान् । पार्श्वद्वयनिलीनाभ्यां, पक्षाभ्यामिव पक्षिराट् ।।२९८।। मुखपूर्णेन्दुपीयूषबिन्दुवृन्दानुकारिणा । आनाभि कण्टमुक्तेन, मुक्ताहारेण हारिणी ॥२९९।। जिताभ्यां पुष्पदन्ताभ्यामिवाऽऽस्यतिलकश्रिया । माणिक्यताडपत्राभ्यामुपकर्णं निषेविता ॥३००। प्रभिन्नानङ्गमातङ्गमदनिर्झरहृद्यया । प्लावयन्ती सभागर्भमभितः प्रभया दृशोः ॥३०१।। हसद्भ्यां नखतेजोभिर्गतिं गज-मरालयोः । चरणाभ्यां चमत्कारिझङ्कारिधृतहंसका ॥३०२।। मूर्ती कीर्ति स्मरस्येव, गीयमानां मधुव्रतैः । पश्यन्ती विधृतां सख्या, स्वयंवरणमालिकाम् ॥३०३।।
D:\maha-k.pm5\2nd proof