________________
२७६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् तदाऽऽलोकयितुं लोलौ, करिराजं कुतूहलात् । उदितौ मुदितौ द्वारि, स्वयमेवाथ दम्पती ॥२७८॥ अथ द्वारगतं वीक्ष्य, वलक्षाङ्गं द्विपं नृपः । निजं पुण्यमिवायातं, मेने मूर्तिधरं पुरः ॥२७९।। तौ तदा दन्तिना तेन, स्वयं स्कन्धेऽधिरोपितौ । जातावाक्रान्तकैलासगौरी-गिरिशसन्निभौ ॥२८०।। सम्भ्रमी बम्भ्रमीति स्म, तदा मदनदीगिरिः । तदाऽऽक्रान्तः पुरस्यान्तर्दुर्धरः सिन्धुरेश्वरः ॥२८१।। अथावतार्य तौ सौधे, स वारणपतिः स्वयम् । विवेश गजशालायां, शीलितायामिवान्वहम ॥२८२।। अथो दिनेषु पूर्णेषु , पुष्पदन्त्याः सुताऽजनि । द्योतयन्ती गृहोत्सङ्गं, भानुमूर्तिरिवाम्बरम् ॥२८३।। गर्भे दवपरित्रस्तदन्तिस्वप्नावलोकनात् । तन्नाम्ना दवदन्तीति, पितृभ्यां सा प्रतिष्ठिता ॥२८४।। कलाकलापस्तामापदल्पाभ्यासपरामपि । लुब्धः स्वयमतादृक्षपात्रस्थितिकर्थितः ॥२८५।। शाश्वतस्तिलको भालमस्या बाल इवांशुमान् । अलञ्चकार निःशेषध्वान्तसंहारकारकः ॥२८६।। सतीतेजोमयीमेतां, राहुभीत्या समाश्रिते । सूर्य-सोमश्रियौ मन्ये, मुखाब्जतिलकच्छलात् ॥२८७।। मन्ये तदीयवक्त्रेन्दोर्लाञ्छनं कबरीच्छलात् । पश्चान्निर्यातमस्तोकलोकदृग्दण्डखण्डितम् ॥२८८।। सुरस्त्रीरूपनिर्माणैरभ्यस्याभ्यस्य पद्मभूः । स्वप्रत्ययाय निर्माय, रतिमेतां ततो व्यधात् ॥२८९।। अस्या वदन-दृक्पाणि-क्रमं निर्मातुमब्जवत् । प्रविवेश स्वयं देवः, स्वयम्भूरपि वारिजम् ॥२९०।।
D:\maha-k.pm5\2nd proof