SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः] [२७५ नलनामाऽनलस्पद्धिधामा सूनुस्तयोरभूत् । उपादानं यदङ्गस्य, मदनोऽनङ्गतां गतः ॥२६५।। यः ककुप्कुम्भिनां लीलागतिगौरवमग्रहीत् । तेन ते न चलन्त्येव, दिग्भ्यः क्षितिधृतिमिषात् ॥२६६।। समग्रायुधयोग्यासु , यं वल्गन्तं विलोकयन् । जातः शङ्के कृताशङ्कः, शङ्करोऽपि स्मरभ्रमात् ॥२६७।। स्वविभूतिपराभूतकुबेर: कूबराभिधः । तस्यानुजोऽभवद् युद्धकान्तारक्रोडकेशरी ॥२६८।। सभायामन्यदा दूतः, कश्चिद् वेत्रिनिवेदितः । आगत्य प्रणिपत्याथ, तं राजानं व्यजिज्ञपत् ॥२६९॥ ६ अस्ति देव ! विदर्भेषु , रत्नगर्भाविभूषणम् । पुण्यपीयूषपूरस्य, कुण्डवत् कुण्डिनं पुरम् ।।२७०।। तत्र भीमरथो नाम, सिन्धुसीमरथोद्यमः । अस्ति द्विषन्मुखाम्भोजसुधांशुर्वसुधाधवः ॥२७१।। प्रियाऽस्य पुष्पदन्तीति, दन्तीन्द्रगतिविभ्रमा । विद्यते द्युतिवैशद्यकिङ्करीकृतकाञ्चना ॥२७२।। व्यजिज्ञपन्नृपं राज्ञी, तमेकान्ते तदेकदा । आनन्दहृद्यया वक्त्रचन्द्रचन्द्रिकया गिरा ॥२७३।। अभ्रमूविभुशुभ्राङ्गस्त्वद्वेश्म प्रविशन् मया । दृष्टः कोऽपि द्विपः स्वप्ने, स्वामिन् ! भीतो दवादिव ॥२७४॥ सदा तदधरस्वादुरसमाधुर्यधुर्यया । गिरा तदनु सानन्दं, जगाद जगतीश्वरः ॥२७५।। स्वप्नेनानेन देवि ! त्वं, स्त्रीषु धन्याऽसि निश्चितम् । यदुल्लास गर्भस्ते, सगर्भस्तेजसा वेः ॥२७६।। किंवदन्तीमिति तयोर्वदतोर्मदतोयधिः । दृष्टः सतुमुलैर्लोकः, शुभ्रः कुम्भी गृहे विशन् ॥२७७।। १. °तिर्मिषम् खंता० पाता० ॥ २. °गदीश्व° खंता० पाता० ॥ 20 25 D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy