________________
२७४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीदस्तदवदद् दन्तद्युतिविद्योतिताकृतिम् ।
गिरं चिरन्तनप्रीतिचमूं यदुसुतं प्रति ॥२५३।। [कनकवत्याः पूर्वभवः]
अस्ति कोशलदेशस्य, किरीटं कोशला पुरी । प्रतोली-तोरणदलभ्रूसम्भ्रान्तद्युपत्तना ॥२५४।। आरुह्य गृहमालासु , बालाः सुखसमुद्धृतैः । यस्यां गगनगङ्गाब्जैरवतंसं वितन्वते ॥२५५।। यस्यां तमसि शोणश्मवेश्मालीरश्मिभस्मिते । जना दिनादि जानन्ति, वापीपद्मालिनीरवैः ॥२५६॥ यस्यां वसत्सु लोकेषु , रत्नसम्भारहारिषु । रत्नाकरः परीवेषमकार्षीत् परिखामिषात् ॥२५७।। तत्राभूदरिशौडीर्यनिकषो निषधाभिधः । विभुमहीमहेलाया, हेलाविजितशात्रवः ॥२५८।। उच्छलढुर्यश:स्तोमधूमध्यामलिताम्बराः । भरयो भूभृतां वंशा, यत्प्रतापानलेऽज्वलन् ॥२५९।। उदारदानसौरभ्यमिलन्मार्गणषट्पदः । ऐश्वर्यकुञ्जरो यस्य, भुजस्तम्भे व्यवास्थित ॥२६०॥ यत्पदाब्जनखाभीशुभास्वद्भाला बभुर्द्विषः । श्रीप्रदाने स काश्मीरमण्डनाडम्बरा इव ॥२६१॥ तस्य नि:सीमसौन्दर्या, सुन्दरेति प्रियाऽभवत् । आस्येनेव जिता यस्याः, पद्मश्रीरपतत् पदोः ॥२६२।। पायं पायं रसालस्य, रसानपि पिकी ध्रुवम् । यगिरं नाप सन्तापः, स तस्याः कार्यकारणम् ॥२६३।। मन्ये यस्याः सुधारासविजयैकविलासिना ।
वाग्रसेन सदा सिक्तो, माधुर्यमधरोऽप्यधात् ॥२६४।। १. कृतिः । गि° खंता० ॥ २. व्यवस्थितः खंता० ॥ ३. °न्दरीति पाता० ॥
20
25
D:\maha-k.pm5\2nd proof