________________
[२७३
एकादशः सर्गः]
अथो मण्डपमुर्वीशाः, स्वयंवरदिने गताः । तस्थुर्मञ्चेषु शृङ्गारभाजः शृङ्गारयोनिवत् ॥२४०॥ तेषु तुल्याकृती श्रीद-वसुदेवौ व्यराजताम् । इन्द्रोपेन्द्राविव तदा, समस्तेषु सुपर्वसु ॥२४१॥ मण्डपेऽस्मिन्नथाऽविक्षज्जनाकीर्णे नृपाङ्गजा । अम्बरे चन्द्रलेखेव, नक्षत्रावलिमालिते ॥२४२।। सा दधाना करे मालां, पौष्पी चापलतामिव । बभावायुधशालेव, जङ्गमाऽनङ्गभूभुजः ॥२४३॥ चक्षुश्चिक्षेप नि:शेषानथ पृथ्वीपतीन् प्रति । नालक्षयत् प्रियं श्रीदसदृशं मुद्रया कृतम् ॥२४४।। अदृष्टवल्लभे तस्मिन् , भूरिभूपेऽपि मण्डपे । अचम्पक इवोद्याने, भृङ्गीवाऽऽप मुदं न सा ॥२४५॥ अथ तस्यां विलक्षायां, नर्म निर्मुच्य गुह्यकः । अर्जुनस्वर्णमुद्रां, तां, वसुदेवादयाचत ।।२४६।। मुक्तायामथ मुद्रायामुन्मुद्रितनिजाकृतिः । मेघमुक्त इव भेजे, भानुरानकदुन्दुभिः ॥२४७।। तृप्ते कनकवत्यास्तच्चिराय तृषिते दृशौ । तेषु क्षारोदनीरेषु , सुधाकूप इव प्रिये ॥२४८।। हसन्ती हर्षतो भृङ्गरवपुष्पविभानिभात् । मालाऽक्षिप्यत तत्कण्ठे, धन्यम्मन्येव कन्यया ॥२४९।। अथाऽऽशु धनदादिष्टदुन्दुभिध्वनिभिर्व्यधुः । हरितो हसितं हृष्टाः, सदृग्युग्मसमागमात् ॥२५०॥ पर्यणैषीदथ मापनन्दनीं यदुनन्दनः । चिरकालाजितप्रीति, शर्वः पर्वतजामिव ॥२५१।। शौरिः श्रीदमथापृच्छदुदितामन्दसम्मदः । कुतः कनकवत्यां वः, प्रसादविशदं मनः ? ॥२५२॥
25
D:\maha-k.pm5\2nd proof