________________
२७२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथैनामाह वीरोऽसौ, सुधासोदरया गिरा । अनङ्गमपि कन्दर्प, कुर्वन् साङ्गमिवाग्रतः ॥२२७।। तन्वि ! मित्रं महेशस्य, महेन्द्रसदृशः श्रिया । त्वत्कृते त्रिदिवादद्य, धनदोऽवनिमागतः ॥२२८।। दूतोऽहं तस्य वामाक्षि !, त्वयि तेन नियोजितः । त्वया वरयितव्योऽयं, नृवरेषु स्वयंवरे ।।२२९।। अथो कनकवत्याह, भावेन भिदुरस्वरा । स सुरोऽहं मनुष्या तु , कथमेनं वृणोमि तत् ? ॥२३०।। अपलप्य किमात्मानं, दूतीभूतो वदस्यदः? । भविता भुवनोत्तंस !, भुवि भर्ता त्वमेव मे ॥२३१॥ मित्रमेष त्रिनेत्रस्य, शक्रतुल्योऽस्तु तेन किम् ? । महेशोऽपि महेन्द्रोऽपि, मम देव ! त्वमेव यत् ॥२३२।। निशम्येदं वचस्तस्याः, स दध्यौ विस्मितो हृदि । मन्ये चित्रपटस्यानुसारेणाहं मतोऽनया ॥२३३।। अथ तामवदद् वीरः, श्रीददूत्येऽहमागतः । शृण्वन्नपीति वार्तां ते, लिप्ये पापेन यामि तत् ॥२३४॥ अभिधायेदमह्नाय, सोऽयमामिव प्रभुः । अतीतो दृक्पथं साऽभूत् , ततो म्लानमुखाम्बुजा ॥२३५॥ तस्मिन् गते चित्रपटं, सा वीक्ष्य न मुदं ददौ । सहस्रांशेऽपि तद्रूपं, यतस्तत्र न पश्यति ॥२३६।। सोऽपि गत्वा यथावृत्तं, कथयन् विनयानतः । विज्ञातं सर्वमप्येतदिति श्रीदेन वारितः ॥२३७।। देवदूष्यांशुकद्वन्द्वमनेन परिधापितः । धनदेन मुदा शौरिः, पारितोषिककर्मणा ॥२३८॥ मुद्रिकामर्जुनस्वर्णमयीं तस्याङ्गलौ पुनः ।
चिक्षेप धनदः सोऽपि, तयाऽभूद्धनदोपमः ॥२३९।। १. ददौत्ये° खंता० ॥
20
D:\maha-k.pm5\2nd proof