________________
10
एकादशः सर्गः]
[२७१ पुरा पुरो नमिविभोर्लक्ष्मी रेमेऽत्र रासकैः । लक्ष्मीरमणमित्येतद् , वनं मत्वेति सोऽधिकम् ॥२१४॥ प्रमोदपेशलस्तत्र, वने नमिजिनालये । पूजयित्वा जिनाधीशान् , ववन्दे पुलकाङ्कितः ॥२१५।। युग्मम् ।। अथो जितः पुरस्यास्य, धनाढ्यैरिव सन्धये । अवातरद् विमानेन, धनदोऽस्मिन् वने दिवः ॥२१६।। पूजयित्वा च नत्वा च, स भक्त्याऽस्मिन् वने जिनान् । हस्ताग्रसज्ञयाऽऽह्वासीद् , विस्मितो वृष्णिनन्दनम् ॥२१७।। असौ महद्धिको देवस्तीर्थकृद्भक्तिभाक् पुनः । माननीय इति ध्यायन् , वसुदेवो मुदा ययौ ॥२१८।। तमायान्तमथालोक्य, पुरो लावण्यसागरम् । रूपे पुरन्दरस्यापि, धनदो निर्मदोऽभवत् ॥२१९।। अथादिशेति जल्पन्तं, पुरस्तं धनदोऽभ्यधात् । दूत्यं कनकवत्यां मेऽनन्यकृत्यं कृतिन् ! कुरु ॥२२०॥ वरणीयस्त्वया श्रीदोऽवतीर्णस्त्वत्कृते दिवः । स्वयं देहेन गच्छ यां, मानुष्येऽपि सुरीभव ॥२२१।। सा वाच्येति द्रुतं गच्छ, कन्यान्तःपुरमात्मना । यामिकैर्मत्प्रभावेण, त्वमदृश्यो गमिष्यसि ॥२२२॥ शिक्षां धनपतेरित्थं, प्राप्य धीरो विशुद्धधीः । स्पृहणीयां सुरैः कन्यां, धन्यां ध्यायन्मुदाऽचलत् ॥२२३।। सामान्यजनमानेन, वेषमाकलयन्नयम् । ययौ कन्यागृहोत्सङ्गं, रक्षाकृद्भिरलक्षितः ॥२२४।। तमकस्मात् पुरो वीक्ष्य, राजपुत्री सविस्मया । अभ्युत्थानं व्यधादन्तर्मुदिता परिकम्पिनी ॥२२५।। दध्यौ किमु ममानूनैः, पुण्यैरेव विरञ्चिना ।
चित्रं पटगतं जीवन्यासेनोद्धृतमेव तत् ? ॥२२६।। १. दौत्यं खंता० ॥ २. वत्या मे खंता० पाता० ।।
20
25
D:\maha-k.pm5\2nd proof